________________
जून - २०१७
७९
१.
मयमिव मदनां सा सूतजातं तदित्थं तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥
_ 'विवेकः शाब्दिकेष्वयं' इति समस्यापदं पूर्यतेउत्तमोऽहं सदा वर्ते मध्यमस्त्वं प्रवर्तसे ।
परः सामान्य आवाभ्यां विवेकः शाब्दिकेष्वयम् ॥ २. समासः क्रियते तेषां येषामन्वययोग्यता ।
वासता (?) बहुरूपाणां विवेकः शाब्दिकेष्वयम् ॥ ३. सर्वधातुकता नित्यं लकाराणां चतुष्टये ।
अर्धधातुकता षट्के विवेकः शाब्दिकेष्वयम् ॥ 'समस्या समस्या समस्या समस्या' इति पदं पूर्यतेप्रवति(?) विश्वे जिनस्योपदेशो, : भवाब्धि तितीर्घर्भवेद्यो हि तेन, रतिश्चारतिश्चातिनिन्दाऽतिनिद्रा, समस्या समस्या समस्या समस्या ॥ षोडश नयनसरोजा-न्यष्टौ मुखपङ्कजानि पादौ द्वौ । पञ्चदश यस्य जिह्वा, जीवद्वयमस्तु वः सिद्ध्यै ॥
[सात फणा पार्श्वनाथ भगवान] प्रहेलिका -
किं सपयं अवरोलं ? गामं किं कारणेण धणइड्ढं ? सुहडो कीस न गिणइ खग्गं समरंगणे पडियं ? (करहीनं) नारीद्वयं यत्र नरास्त्रयो हि शृङ्गद्वयं पुच्छयुगं च यत्र । नवाधिकं नेत्रसहस्रयुग्मं दशैव पादा दिशतात् स राज्यम् ॥ (?) आद्येन हीना लघुमानरूपा, मध्येन हीना प्रविभासमाना । अन्त्येन हीना कृशदुर्व्वहा स्यात्, संपूर्णनाम्नी भवतां मुदे सा ॥ (भारती) चउवयणो नवि बंभो बहुसिलो(सीसो?) नेव राय(व?)णो होई । सरणागयरख्खकरो भीमो नहु होइ जाणेह ॥ (मढ) अभूमिजमनाकाशं रसास्वादविवजितं । । सुलभं रोगनिर्नाशि वद वैद्य किमौषधं ॥ (लङ्घनं)