SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७८ अनुसन्धान-७२ ३. वृक्षे क्षौद्रमसंख्यमाक्षिकमिहारुक्षन् समीक्षन् स्त्रियो द्रागुन्मूल्य सरिद्रयोद्रुममिलद् द्रुत्वामिभंदुद्रुतं (?)। पीताब्धिश्च पवौ जलस्थलतयागामज्जताच्चित्ततो (?) मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभ्रवः ॥ 'यष्टिरीष्टे न वैणवी' इति समस्या पूर्यते - १. नमनं गुणवानेव कुरुते न तु निर्गुणः ।। गुणं विना नतिं कर्तुं यष्टिरीष्टे न वैणवी ॥ प्रतिभैव प्रयुक्तिः [स्यात्] खण्डने स्यान्मतिस्तु न । क्षोदितुं हि कुशीव क्ष्मा यष्टिरीष्टे न वैणवी ॥ 'नवलक्ष्यो जनताक्षिभिबिभीः' इति समस्यापदं श्रीजिनचन्द्रसूरिभट्टारकैः प्रदत्तं पञ्चकृत्वः पूरितं१. सुषमाभिरनेकसूनृतैः प्रतिभाभिः सुनयैश्च सद्गुणैः । जिनचन्द्रतुलां करोति यो नवलक्ष्यो जनताक्षिभिबिभीः ॥ प्रतिघस्मयकैतवस्पृहाः करुणान्यत्र च पञ्च तद्भिदे । प्रवणो यतिपः परीक्षते न वलक्ष्यो जनताक्षिभिर्बिभीः ॥ ३. उपकारपराऽपकारिषु कनर्क कामिनिकं च वष्टिनो (?) । स भवाब्धिपराङ्मुखः पुमा-नवलक्ष्यो जनताक्षिभिर्बिभीः ॥ ४. कुरुते गुरुगर्हणां यको दृष्टि (ढ?) मुष्टित्वमलं दधाति यः । अभिधाप्यशुभात्र यस्य सः न वलक्ष्यो जनताक्षिभिर्बिभीः ।। ५. गदतः स्वजनेष्टनाशतो जरसो मृत्युत एव दैवतः । शतशो भयमेवमुद्वह-न्नवलक्ष्यो जनताक्षिभिर्बिभीः ॥ "तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता' इति समस्यापदं पूर्यतेसखि दृशि समपप्तत्कीटिकैकोपभारं सुहृदवदत्पक्ष्मो(?)दस्पतिः सारयन्स्तं । अभिमुखमयबिम्बं वीक्ष्य दृक्स्थं तदाहो तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ २. तिलमिव लघु चित्तं स्नेहयुक्तप्रदेशे निविशति किल हीनाङ्गीव कृष्णातिकृष्णा ।
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy