SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३२ अनुसन्धान-७२ कर्पूरः करकावली कुमुदिनीकान्तत्विषः केतकी, कामारिः करदानि यस्य यशसामेतानि विश्वोदरे ॥३८॥ पीताम्भोधिभिराजिरेणुभिरिलालग्नंभविष्णुर्जनः, शीर्षेऽसौ पलितंभविष्णुरविलादम्भंभविष्णुर्दृशोः । भूतेशः सुभगंभविष्णुरजनि स्थूलंभविष्णुः स्थली, ___यस्याऽश्वीयखरोद्धतैर्घटकृतामाद्यंभविष्णुर्जनाः ॥३९॥ असमय इति यस्य द्वारपालैर्निषिद्धाः, प्रतिफलनमिषेण स्फाटिकप्राङ्गणेषु । ददृशुररिनरेन्द्राः स्वं निषि(ष)ण्णा रसान्त-र्गतमतनुहियेवाऽन्योन्यमानम्रवक्त्राः ॥४०॥ व्याघातव्रणितकलाविकेन दोष्णा, क्षोणी स क्षितरिपुसन्ततिः शशास । यद्पं चकितमृगीदृशः पुरन्ध्यः, पश्यन्त्यो दशशतनेत्रतामकाङ्क्षन् ॥४१॥ तस्मिन् शौर्यकथावशेषपदवीमुद्गाहमाने ततः, सिद्धश्रीजयसिंहदेवनृपतिर्नेत्रप्रियंभावुकः । सप्ताम्भोधितटीपटीरपटलच्छायानिषि(ष)ण्णोरगी गीतस्फीतयशाः शशास वसुधामेकातपत्रामिमाम् ॥४२॥ अहो! सपादलक्षेऽपि, स्वीकृते किल मालवम् । यो जग्राह तथाऽप्येष, त्यागीति भुवि कथ्यते ॥४३॥ विभोरस्य क्षात्रे महसि सहसा सर्पति नम-च्छिदालङ्कर्मीणे किमय--कोपादिव दिवि। तिरोधादादित्यं तरलतुरगश्रेणिरवनी-रजोभिर्दिग्जैत्रे हरिहरति यस्मिंश्च हरति ॥४४॥ अभिषिषणयिषोः किल मालवं, शरदि यस्य वनेषु विनोदिभिः । कटदिति द्विरदैर्मदशालिभिः, शकलिता(:) कलितालमहीरुहः ॥४५॥ सेना सा सहसा तस्य, घना सररसा ततः । ततसाररसाभतृ(र्तृ), जातसासहसाऽभया ॥४६॥ मुरुजबन्धः ॥ रतामरारामतार, तारहाससहारता । महासिका कासिहाम, रासकाननकासरा ॥४७॥ धरापुरीपरिसरेषु युगान्तमुक्त-मर्यादवारिलहरिप्रकरप्रकाशम् । यस्याऽश्वस्यै(सै)न्यमतिमात्रमलोकि लोकैः, फालाविलोलतरचामरफेनकूटम् ॥४८॥ प्रचलचलसमुद्रे यस्य भूभृन्निवासे, प्रसृमरतरवारिग्राहिणि स्म बुडन्ती । विदलति बत धारा नो(नौ)रिवाऽन्तर्विसर्पत(द्), बहुल[ल]हरिमन्दक्रन्ददस्तोकलोकाः ॥४९॥
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy