SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ ......... राजप्रभवभुवनभ्रान्तयशसः, प्रतापप्रागल्भीगलित ..... ................... महसः । क्षितीशोऽभूत् ................... विलसदसिदण्ड..... ........................... ॥१०॥ दिग्दन्तावलकर्णतालपवनप्रेवत्प्रतापानल प्लुष्टाशेषसपत्नभूपतिभुजाहुङ्कारकारस्करः । ........... जगतः श्रीमूलराजः सुर स्त्रीभिः काममपास्य नाम यदसिध्यानं समाधीयते ॥११॥ क्षोणीमानणहिल्लपाटकमिति प्राकारमौलिस्खलत् ___ ताराचक्रमुदारविक्रमनिधिर्भोजः पुरं यः पुरा । यत्राऽभ्रंलिहहेमहर्म्यवलभीवैडूर्यपुञ्जप्रभा पुढे पौरभुजङ्गसङ्गममरस्वैराः स्त्रियः कुर्वते ॥१२॥ प्रतिच्छन्दः कुन्दस्तुहिनगिरिरुच्चैरुपकथा, समस्याऽवस्या(श्या)यः स्फुरस्फ)टिकशिखरी च द्विवचनम् । अखण्डं पाख[ण्डं] कुमुदवनखण्डं सुरसरित् पयः पौनःपुण्यं(न्यं?) विशदमहसां यस्य यशसाम् ॥१३॥ अधिमृधमसिदा राजसूयीकयाजी, निजमहसि हुताशे राजहव्यानि हुत्वा । प्रहतरिपुभिरु/विष्टकुन्तैः सयूपं, रुधिरसलिलपूतं यश्चकाराऽश्वमेधम् ॥१४॥ पुण्याङ्गजन्मा मकरन्दवत् पुरा, शिलीमुखैर्यस्य शिलीमुखैरिव । आस्वाद्य लक्षः समरे नरेश्वरः, कथावशेषां पदवीमलम्भि सः ॥१५॥ यः शात्रवक्षोणिभृतां प्रचण्ड-दोर्दण्डकण्डूं शमयाम्बभूव । उच्छेदयामास च मण्डलानि, स राजवैद्यो वचसामपन्था(:) ॥१६॥ प्रौढप्रतापसुरवेश्मनि कीर्तिकेतु-मारोप्य कान्तनयदैवतगर्भिते यः । शात्ता(ता)सिकृत्तरिपुमस्तकनालिकेरै-राशापतिभ्य उपहारमिवाऽऽततान ॥१७॥ तस्मिन्नुद्दामवीरव्रतजनितयशःशेषतामश्नुवाने, . चण्डश्चामुण्डराजः समजनि नृपतिस्तत्सुतो दानशौण्डः । प्रेङ्खद्भिर्यद्यशोभिस्त्रिजगति कुमुदप्रोज्ज्वलैः शुभ्रितेऽस्मिन्, भ्रामत्यद्यापि लक्ष्मीरनुगृहमसकृत् कृष्णमन्वेषयन्ती ॥१८॥
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy