________________
अनुसन्धान-७२
आदिनः, अर्थाच्चकार एव, तस्य आ- अवधारणे थो- रक्षणं यस्मिन् स आदिनाथस्तस्याऽऽमन्त्रणं - हे आ० । चन्द्रप्रभ । "तौ मु०" - अनुस्वारः । हे श्रीवीत!, श्रीकारं विशेषेण प्राप्त! । 'श्रीचन्द्रप्रभजिन' नाम निष्पन्नम् । हे अपंयुग!, अपगतो युगः कलियुगो यस्मात् स, तस्य सं० - हे अ०, भवत्प्रभावात् कलिकालकल्पिता(त)दुष्टचेष्टितानि न स्युः इति तत्त्वम् । हे विश्वारिभीरणभ!, विगत(ता) स्वतुल्य(श्व कल्य?) वैरिभयकम्पना भादीप्तिर्यस्य स विश्वारिभीरणभः तस्या० । हे परा!, परं- प्र[कर्षेण] आस्मरणं यस्य स परा, तस्य सं० । अव्ययम् । कस्मितः(कस्मिन्) ? देवेसुरे, जात्येकवचनं, देवानां स्मरणीय!- पूजनीय! इति तत्त्वम् । हे श्रियां नेतः!, हे परपदाश्रय!, हे रागश!, प्राग्वत् । हे अतिनिवारकाख्य!, अति- अत्यर्थं निवारका- प्रचुरसुखकरा आख्या यस्य सः, त्वन्नामग्रहणेनाऽपि सुखसम्पदः स्युः । भवान् मे शं स्तात् ॥९॥ देवेन्द्र! से! वित! विपापयुग! आदिनाऽऽथ!,
विश्वारिभीरणभरैरपराजित! स्तात् । नेतः! श्रियां परपदाश्रय! शं भवान्मे,
श्रीवीतराग! शमितान्तिनिवारकाख्य! ॥ व्याख्या - हे आदिनाथ!, आदिन! आथ!, आदिर्नाद् यः स आदिनो धकारः, आकारस्य थो- रक्षणं समीपवर्तित्वेन यस्मात् स आथ, इकार एवेत्यर्थः । आदिनात् आथः आदिनाथ, तस्य सं० हे आ० । धकारात् पुरः इः, धइ, अवर्णस्याएतेनस्युन्नेण एत्वम् (?), एतावता हे धे! । हे वित!, विवर्णस्य ता- शोभा यत्र स वितस्त० । 'विधे' सिद्धम् । हे उग!, उकारं प्राप्नोतीति उगस्तत्स० । उविधे । हे उविधे! किंलक्षणस्त्वम् ? इ- प्रत्यक्षः, केन ? सा, र(स)कारेण । 'सुविधे' इति जातम् । भवान् मे शं स्तात् । कथम्भूतो भवान् ? विपाप:- पापरहितः । हे देवेन्द्र!, हे विश्वारिभीरणभरैरपराजित!, हे नेतः!, हे परपदाश्रय!, कासाम् ? श्रियाम् । हे श्रीवीतराग!, हे शमितान्तिनिवारकाख्य!, इति सम्बोधनैर्विशेषणानि । वृत्तार्थः ॥१०॥ देवेन्द्रसे! वित! विपाप! युगादिनाऽथ,
विश्वारिभीरणभरैरपराजित! स्तात् ।