SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ ज्ञेयम् । 'अर्वे'ति निष्पादितम् । हे अर्श्व! किंविशिष्टरूपम् ? विपापः, विशेषणं(विशेषेण) पकारस्य आपः प्राप्तिर्यत्र स विपापः, प्रथमैकवचनं सि, सौरुः सररार्यरयस्वार वा ('सो रुः' - स → र, 'रोर्यः' - र → य, 'स्वरे वा') अत्र सूत्रे विकल्पसद्भावात् न यलोपः, पअर्श्व, 'समानानां तेन दीर्घः', 'पार्श्व' निष्पन्नम् । हे उग!, उकारं गच्छति ई (इति) उगस्तस्या० । उपार्श्व । हे सेवित!, सस्य इ:- शोभा, तस्या ऊ- रक्षणं इत- प्राप्त!, अकार उच्चारणार्थः, सयुक्त इत्यर्थः । 'सुपार्श्व' सिद्धम् । हे देवेन्द्र! । हे अदिनाथ!, दाशब्देन च्छेदः, छ(?)विना तथा एकेन्द्रियवनस्पतिपत्रपुष्पफलादीनां न विद्यते येषां षड्जीवनिकायारम्भप्रत्याख्यानेन सर्वतो विरतत्वात्, अथवा दा बन्धनं स्त्रीपुत्रपौत्रगृहधनधान्यसुवर्णादिपरिग्रहविमोहितत्वेन अथवा बन्धों राजाद्यादेशवर्तित्वलक्षणः, यतः "स्वैरं विहरति स्वैरं शेते स्वैरं च जल्पति" इति वचनात्, पुनरप्यबन्धः कर्मणा न विद्यते येशं ते अदिनः, यद्यपि सिद्धिगमनं विना कर्मणामबन्धकत्वं न स्यात्, परं तथाप्यनारम्भित्वेन सर्वनिवृत्तः बन्धस्य अल्पतेया(अल्पतया) असत्तैव विशेष्यते यथा - सदसत्संशयगोचरो दोरी(?) इति वर्णनवत्, इयताऽदिनः छेदबन्धरहिता यतय एव तेषां नाथ! । हे विश्वा० अपराजित! । हे श्रियां नेतः! । हे परपदाश्रय! । हे श्रीवीतराग! । भवान् मे । अतिनि, अतिक्रान्तक्षयमक्षयं यथा स्यात् । इति वृत्तार्थः ॥८॥ देवे द्रसेवित! विपाऽपयुगाऽऽदिनाथ!, विश्वारिभीरणभ! रै र! परा! जितः स्तात् । नेतः! श्रियां परपदाश्रय! शं भवान्मे, श्रीवीत! रागश! मिताऽतिनिवारकाख्य! ॥ व्याख्या - हे भ!। हे रैर रकारस्य परः आ सामस्त्येन इरणं- प्रापणं यत्र स रैर(?), तस्य सं० । 'रभ' इति रूपनिष्पत्तिः । हे विप!, विशेषेण पः पकारो यत्र तत् । अकार उच्चारणप्रयोजनपरः । हे द्रसेवित!, द्रयुक्त!। 'द्रप्रभ'सिद्धिः । हमव (हे मित! ?), म्-इत्यक्षरं प्राप्त! । हे आदिनाथ!, कस्मात् ? जितः, जो जकारः समीपे एकवर्गे वा विद्यते यस्य स जी इत्यर्थः, तस्मात् जितः, पञ्चम्यास्तस्, “नाम सिदय्व्यञ्जने" - पदसञ्जा, "नाम्नो नोऽनह्नः" इति सूत्रेण जिन्-नलुप् जितः, जकारादादौ नं- ज्ञानं यस्य स
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy