________________
६
अनुसन्धान- ७२
सुभटनरैरनभिभूत! । हे श्रियां परपद ! । हे रागश!- रागोच्छेदक! । अन्तिनिवारकाख्य!, अन्ती - संसारान्तवान्, सिद्धत्वं प्राप्त इत्यर्थः, निवारकाप्रचुरसुखकरा आख्या यस्य स०, अन्ती चाऽसौ निवारकाख्यश्च विशेषणद्वयकर्मधारयः ॥६॥
देवेन्द्रसेवित ! विपा ! पयुगाऽऽदिनाऽथ,
विश्वारिभीरण ! भ ! रै रपराऽजित ! स्तात् । नेतः ! श्रियां परपदाश्रय! शं भवान्मे,
श्रीवीत! राग! शमितान्तिनिवारकाख्य ॥
व्याख्या हे भ! हे रपरोऽग्रेतन: रपरस्तस्य सं०, 'रभ' सिद्धम् । हे विपा !, विशेषेण पकारस्य आ- अवधारणं यस्मिन् स० सं०, 'प्रभे 'ति जातम् । हे मे!, मकार ई- समीपे यस्य स 'मप्रभ' इति रूपव्युत्पत्तिः । हे आद्!, आ- सामस्त्ये वाक्ये वा द्- दकारो यस्मिन् स० । 'द्मप्रभ' निष्पन्नम् । हे पयुग ! - पकारयुक्त!, 'पद्मप्रभ' । हे श्रीवीत ! । इयता श्रीपद्मप्रभजिन! भवान् शं स्तात्, 'त्वदाराधकाना' मित्युक्तियुक्तिः । हे दे०!, हे इन ! - स्वामिन्! । अथोऽनन्तरतायाम् । हे विश्वारिभीरण!, श्वकल्यारिभीस्तया ईरणं– कम्पनं श्वारिभीरणं, विगतं श्वारिभीरणं यस्मात् स० । हे रै:- अपरैः सामान्यनरैः अजित!, अतुलबलत्वात् । हे श्रियां नेतः ! । हे परपदाश्रय! | हे राग!, रं- कामं न गच्छति - न प्राप्नोति - न तदाश्रयवशमेति रागः, कामविक्रियाऽबाधित इति भावः । हे शमितान्तिनिवारकाख्य ! । इति वृत्तार्थ:
॥७॥
1
देवेन्द्र! सेवित! विपापयुगाऽदिनाथ!,
विश्वारिभीरणभरैरपराजित! स्तात् ।
नेतः! श्रियां परपदाश्रय! शं भवान् मे,
श्रीवीतराग! शमिताऽतिनि! वाऽर ! काख्य ! ॥
हे व! | शमित! - शकारं प्राप्त!, 'श्व' सिद्धम् । हे काख्य!, केनसुखेन- अप्रयासेन आख्या - प्रकथनं यत्र स० । कस्य ? अरः, अरइति वर्णविज्यासस्य अर:(?) । अत्र " नाऽनुस्वारविसर्गौ तु चित्रभङ्गाय सम्मतौ' इति शास्त्रप्रामाण्या [दनुस्वार - ] विसर्गयोर्न दोषः । इह बह्वर्थाविर्भावनं चित्रं