________________
जून २०१७
हे श्रियां प० । हे रागशमिताईत (तामित) !, रागस्य शमो विद्यते यस्य [स] रागशमीनो (०शमी, तस्य) भावः रागशमिता, भावे तल् प्रत्यय:, तां प्राप्त[:], नीराग इति भावः । अथ नामारोपणा हे तिनि ( हे नि )वारकाख्य!, नितरां वार:- समूहो यस्मिन् तद् निवारं प्रचुरमिति तत्त्वं निवारं प्रचुरं कं- सुखं यस्याः सा निवारका, निवारका आख्या यस्य सः, तस्याऽऽमन्त्रणम् ० । ति । सिद्धहेमे परपदाश्रय!, मकारपरः प्रकृष्टः स्याद्यन्तादिपदाश्रयो यस्य यत्र वा सा 'मति' जातम् । हे सेवित!, सकारस्य :- शोभा यस्मिन् स से:, सेर्य उस्तमित[:]- प्राप्त[:] प्रकार उच्चारहेतुः सुयुक्त इति भावः । सुमति । हे श्रीवी!, श्रीकारो विशेषेण ई- प्रत्यक्षो यत्र स०, तस्याऽऽमं०, आमन्त्रिणी सि, अव्ययत्वाद् लुप्। इयताऽऽह श्रीसुमति इति सुखदायकाख्य! जिन ! भवान् शं स्तात्, भक्ताना-मिति गस्य (गम्यम् ) ॥५॥
-
"
देवेन्द्रसेवित! विपापयुगा ! दिनाऽथ,
विश्वारि भी ! रणभरैरपराजित! स्तात् । नेतः ! श्रियां परपदाऽऽश्रय ! शं भवान्मे,
श्रीवीत ! रागश! मिताऽन्तिनिवारकाख्य ! ॥
-
व्याख्या
I
हे दिन!, दकारो विद्यते यस्याऽसौ दी, इन्प्रत्ययः, दी चाऽसौ नश्च दिनस्तस्य सम्बो०, पदेने (दिने ) ति निष्पन्नम् । हे मित!, मकारं प्राप्त! । हे नेत!, 'न' इति वर्णेन ई- प्रक्षा (ख्या) ता शोभा यस्मिन् स नेतस्तस्याऽऽमन्त्रणम् । नम्दन, 'तौ मुमोर्व्यञ्जने स्वौ', अनुस्वारः, 'नन्दने' ति सिद्धम् । हे भी!, भि- इत्यक्षरम् ई- सन्निधौ यस्य स भी, तस्य सं०, आमन्त्रिणी सि, अव्ययत्वाद् लुप् । 'भिनन्दनं' जातम् । हे आश्रय !, अकारस्य आश्रयो यत्र स०, 'अभिनन्दन 'रूपसिद्धिः । हे श्रीवीत!, श्रीकारं विशेषेण प्राप्त ! । हे श्रीअभिनन्दनजिन ! भवान् मे शं स्तात् इति क्रियासम्बन्धः । अथाऽऽमन्त्रणेन विशेषणानि हे देवेन्द्रसेवित!, हे विपापयुगा !, विगत: पापयुगो बहुपापप्रवृत्तिमयो युगः कलियुगस्तस्य य आ:- सन्तापो यस्मात् स०, तस्य सम्बोधनम् । जिनातिशयाद् दुष्टयुगचेष्टितं न बाधते इति भावः । अथ आनन्तर्यार्थः । हे विश्वारि यथा भवति तथा । रणभरैः अपराजित! रणे भादीप्तिर्येषां सामर्थ्यगर्वप्रोद्भूतोत्साहादकातरत्वेन, रणभाश्च ते राश्च रणभरास्तैः