________________
ओक्टोबर-२०१६
हे घना!- मेघा!, ब्रूत- भणत । के ? यूयमेव- भवन्त एव । कं ब्रूत ? तं- प्रियम् । कीदृशम् ? पथिकपांशुलं- पान्थनिकृष्टम् । यतः कीदृशा यूयम् ? शीघ्रलङ्घना- वेगगामिनः । क्व ? पथि- मार्गे । किं ब्रूत ? अद्यअधुना, अन्यदेशरतिः- परदेशप्रीतिर्मुच्यतां- त्यज्यतां युष्माभिः । अथवायदिवा, यदि न त्यज्यते तदा, तव- ते, वधूः- भार्या, किमुच्यता- किं भण्यताम् ? ॥८॥ हंसपक्तिरपि नाथ! सम्प्रति, प्रस्थिता वियति मानसं प्रति । चातकोऽपि तृषितोऽम्बु याचते, दुःखिता पथिक! सा प्रिया च ते ॥९॥ __ हे नाथ!- स्वामिन्! । हंसपङ्क्तिरपि- चक्राङ्गाजिरपि, प्रस्थिताचलिता, सम्प्रति- इदानीं, मानसं प्रति- मानससरो लक्ष्यीकृत्य । क्व ? वियत्याकाशे ।
तथा चातको- बप्पीहकोऽपि याचते- प्रार्थयते । किं तद् ? अम्बुजलम् । कीदृशः ? तृषितः- पिपासितः ।
तथा हे पथिक!- अध्वग! । सा च ते- तव प्रिया- वल्लभा दुःखितादुःखप्राप्ता वर्तते । अपि-चकाराः परस्परापेक्षया समुच्चये ॥९॥ नीलशष्पमतिभाति कोमलं, वारि विन्दति च चातकोऽमलम् । अम्बुदैः शिखिगणो विनाद्यते, का रतिः प्रिय! मया विनाऽद्य ते ? ॥१०॥ ___ अतिभाति- अतिशयेन शोभते । किं तत् ? नीलशष्पं- कृष्णबालतृणम् । कीदृशम् ? कोमलं- सुकुमारम् ।
तथा वारि- जलं, विन्दति- लभते । कोऽसौ ? चातको- बप्पीहकः । कीदृशं वारि ? अमलं- निर्मलम् । चः समुच्चये ।
तथाऽम्बुदैः- मेघैः, शिखिगणो- मयूरवृन्दं, विनाद्यते- शब्दं कार्यते ।
हे प्रिय! ते- तव, का रतिः- का प्रीतिः, अद्य- अधुना । कथम् ? विना- अन्तरेण । कया ? मया- माम् ॥१०॥ मेघशब्दमुदिताः कलापिनः, प्रोषिताहृदयशोकलापिनः । तोयदागमकृशा च साऽद्य ते, दुर्धरेण मदनेन साद्यते ॥११॥