________________
९०
अनुसन्धान-७१
कलापिनो- मयूरा वर्तन्ते । कीदृशाः ? प्रोषिताहृदयशोकलापिनः, प्रोषिताया- गतभर्तृकाया, हृदयं- मनः, तस्य शोकं- सन्तापं, लपन्ति- ब्रुवन्ति जनयन्ति वाऽनेकार्थत्वात्, ते तथोक्ताः । कथम्भूताः सन्तः ? मेघशब्दमुदिताघनरवहृष्टाः । कृतकेकाशब्दा इत्यर्थः ।
सा च ते भवदीयभार्याऽद्येदानी साद्यते- खेद्यते वेवीद्यते च । केन ? मदनेन- कामेन । कीदृशेन ? दुर्धरेण- दुःसहेन । कीदृशी ? तोयदागमकृशा- मेघागमकृशा- मेघागमदुर्बला ॥११॥ किं कृपाऽपि तव नाऽस्ति कान्तया, पाण्डुगण्डपतितालकान्तया । शोकसागरजलेऽद्य पातितां, त्वद्गुणस्मरणमेव पाति ताम् ॥१२॥
हे प्रिय! किं कृपाऽपि- करुणाऽपि, तव- ते, नाऽस्ति- न विद्यते ?, अपि सम्भावनायाम् । कया ? कान्तया- प्रियया । कीदृश्या ? पाण्डुगण्डपतितालकान्तया- पाण्डुगण्डयो:- शुभ्रकपोलयोः, पतिता:- श्रिता, अलकानां- कुटिलकेशानामन्ताः- पर्यन्ता यस्याः, सा तथोक्ता तया ।
तां- त्वद्भार्यां, त्वद्गुणस्मरणमेव- गुणस्मृतिरेव, पाति- रक्षति, अद्यइदानीम् । कीदृशीम् ? पातितां- प्रवेशिताम् । केन ? त्वयैवेति गम्यते । क्व ? शोकसागरजले- शोक एव सन्ताप एव सागरजलं, बहुत्वाद् गम्भीरत्वाच्च, तत् तथोक्तं तस्मिन् ॥१२॥ कुसुमितकुटजेषु काननेषु, प्रियरहितेषु समुत्सुकाननेषु । वहति च कलुषं जलं नदीनां, किमिति च मां समुपेक्षसे न दीनाम् ? ॥१३॥ __ हे प्रिय! किमिति- किमर्थं न मां समुपेक्षसे- न स्मरसि ? । कीदृशीम् ? दीनां- दैन्यापन्नाम् । यद्वा मानियोध! किं मां न समुपेक्षसे ? अपि तु समुपेक्षसे एव । प्रियां कीदृशीम् ? दीनाम् । केषु ? काननेषु । कीदृशेषु ? कुसुमितकुटजेषुपुष्पितकुटजवृक्षेषु । तथा प्रियरहितेषु- वल्लभहीनेषु सत्सु । कीदृशेषु ? समुत्सुकाननेषु- समुत्सुकमुत्कण्ठितमाननं- मुखं येषां ते तथोक्तास्तेषु । ___ तथा वहति च- सर्पति च । किं तद् ? जलं- पानीयम् । कीदृशम् ? कलुषं- मलिनम् । कासाम् ? नदीनां- सरिताम् । इति हेतोः किं [न] समुपेक्षसे इत्यर्थः ॥१३॥