SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ मार्गेषु मेघसलिलेन विनाशितेषु, कामो धनुः स्पृशति तेन विना शितेषु । गम्भीरमेघरसितव्यथिता कदाऽहं, जह्यां सखि ! प्रियवियोगजशोकदाहम् ॥१४॥ हे सखि!- मित्र!, कदा- कस्मिन् काले, जह्यां- त्यजेयम् । कम् ? प्रियवियोगजशोकदाहम्- प्रियेण [दयिते ]न वियोगो- विरहस्तस्माज्जातः प्रियवियोगजः, स चाऽसौ शोकदाहश्च- सुकीडा च (?) स तथोक्तस्तम् । कीदृशी ? गम्भीरमेघरसितव्यथिता- गम्भीरघनगर्जितपीडिता, यतस्तेनप्रियेण विना । कोऽसौ ? कामोऽनङ्गो धनुश्चापं स्पृशति- आमृशति । कीदृशम् ? शितेषु- तीक्ष्णबाणम् । केषु सत्सु ? मार्गेषु- पथिषु । कीदृशेषु ? विनाशितेषु- भग्नेषु । केन ? मेघसलिलेन- घनजलेन इत्यर्थः ॥१४॥ सुसुगन्धितया वनेऽजितानां, स्वनदम्भोधरवातवीजितानाम् । मदनस्य कृते निकेतनानां, प्रतिभान्त्यद्य वनानि केतकानाम् ॥१५॥ हे प्रिय! अद्य- अधुना, प्रतिभान्ति- शोभन्ते । कानि ? वनानिकाननानि । केषाम् ? केतकानाम् । कीदृशानाम् ? निकेतनानां- निवासानाम् । किमर्थम् ? कृते- निमित्तम् । कस्य ? मदनस्य- कामस्य । तथाऽजितानाम्अनभिभूतानाम् । कया ? सुसुगन्धितया- सुष्टु शोभनगन्धेन । क्व ? वनेकानने । तथा स्वनदम्भोधरवातवीजितानां- स्वनन्तश्च तेऽम्भोधराश्च, तेषां वातो- वायुस्तेन वीजिता- विशेषेणेजिता:- कम्पितास्तेषां, गर्जन्मेघमरुत्कम्पितानामित्यर्थः ॥१५॥ तत् साधु यत् त्वां सुतलं ससर्ज, प्रजापतिः कामनिवास! सर्ज! । त्वं मञ्जरीभिः प्रवरो वनानां, नेत्रोत्सवश्चाऽसि सयौवनानाम् ॥१६॥ ___ हे सर्ज! । कीदृश! ? कामनिवास!- मदनवसते! । तत् साधु- शोभनं, यत् त्वा- भवन्तं, ससर्ज- सृष्टवान् । कोऽसौ ? प्रजापतिः- ब्रह्मा । कीदृशं त्वाम् ? सुतलं- चारुवृक्षम् । यतस्त्वमसि- भवसि । कीदृशः ? प्रवरःश्रेष्ठः । केषां मध्ये ? वनानां- वृक्षाणाम् । काभिः ? मञ्जरीभिः । न केवलं प्रवरो, नेत्रोत्सवश्च- नयनानन्दकारी चाऽसि । केषाम् ? सयौवनानांतरुणानाम् ॥१६॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy