________________
९२
अनुसन्धान-७१
नवकदम्ब! शिरोऽवनताऽस्मि ते, वसति ते मदनः कुसुमस्मिते । कुटज! किं कुसुमैरुपहस्यते, निपतिताऽस्मि सुदुःप्रसहस्य ते ॥१७॥ ___ हे नवकदम्ब!, ते- तव, शिरोऽवनता- मूर्द्धप्रणता, अस्मि- भवामि । यतो वसति- तिष्ठति । कोऽसौ ? मदन:- काम: । क्व ? कुसुमस्मितेपुष्पहास्ये । कस्य ? ते- तव । ___तथा हे कुटज! किमुपहस्यते- हासः क्रियते? । कै: ? कुसुमैः । निपतिताऽस्मि- प्रणताऽस्मि । कस्य ? ते- तव । कीदृशस्य ? सुदुःप्रसहस्य- सुष्ठु दुःसहनीयस्य ॥१७|| तरुवर! विनताऽस्मि ते सदाऽहं, हृदयं मे प्रकरोषि किं सदाहं । तव पुष्पनिरीक्षिताऽपदेऽहं, विसृजेऽहं सहसैव नीप! देहम् ॥१८॥
हे नीप!- कदम्ब! । कीदृश! ? तरुवर!- वृक्षश्रेष्ठ! । ते- तव विनताऽस्मि- प्रणताऽस्मि, सदा- सर्वकालमहम् । किं किमर्थं, प्रकरोषिविदधासि । किं तत् ? हृदयं- मनः । कीदृशम् ? सदाहं- ससन्तापम् । कस्य ? मे- मम ।
किञ्च, विसृजेऽहं- त्यजाम्यहम् । हे नीप!, कम् ? देहं- शरीरम् । कथम् ? सहसैव- झटित्येव । क्व ? अपदे- अस्थाने । कीदृशि ? अहं तव- ते, पुष्पनिरीक्षिता- कुसुमावलोकिता सतीत्यर्थः ॥१८।। कुसुमैरुपशोभितां सितै-र्घनमुक्ताम्बुलवप्रभासितैः । मधुनः समवेक्ष्य कालतां, भ्रमरश्चुम्बति यूथिकालताम् ॥१९॥ ___ भमरो- भृङ्गश्चम्बति- पिबति । काम् ? यूथिकालताम् । किं कृत्वा ? समवेक्ष्य- दृष्ट्वा । काम् ? कालतां- प्रस्तावम् । कस्य ? मधुन:पुष्परसस्य । कीदृशाम् ? कुसुमैः- पुष्पैरुपशोभिता- विभूषिताम् । कीदृशैः ? सितैः- शुभैः । तथा घनमुक्ताम्बुलवप्रभासितैः- घनेन मुक्ताश्च तेऽम्बुलवाश्चजललेशाश्च घनमुक्ताम्बुलवास्तैः प्रभासितानि- शोभितानि तैः ॥१९॥ तासामृतुः सफल एव हि या दिनेषु, सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु । रत्युत्सवं प्रियतमैः सह मानयन्ति, मेघागमे प्रियसखीश्च समानयन्ति ॥२०॥