________________
ओक्टोबर-२०१६
हि- स्फुटं, तासां- वनितानां, सफल एव- सार्थक एव वर्तते । कोऽसौ ? ऋतुः । या रत्युत्सवं- सुरतमहं मानयन्ति- सेवन्ते । कैः सह ? प्रियतमैः सह- प्रियैः समम् । केषु सत्सु ? दिनेषु- दिवसेषु । कीदृशेषु ? सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु- सेन्द्रचापमेघस्य गर्जितानि- रसितानि दुर्दिनानि च- मेघतिमिराणि च येषु तानि तथोक्तानि तेषु ।
तथा प्रियसखीश्च- वल्लभवयस्याश्च समानयन्ति- पूजयन्ति ॥२०॥
इदानी कविः प्रतिज्ञां करोति - भावानुरक्तवनितासुरतैः शपेय-मालभ्य चाऽम्बु तृषितः करकोशपेयम् । जीयेय येन कविना यमकैः परेण, तस्मै वहेयमुदकं घटकर्परेण ॥२१॥
शपेयं- शपथं करोम्यहम् । गणकृतस्याऽनित्यत्वात् 'शपथे शप' इत्यात्मनेपदं न भवति । कैः शपेयम् ? भावानुरक्तवनितासुरतैः- भावेनचित्तेन परमार्थेन वाऽनुरक्ता रागयुक्ताश्च ता वनिताश्च- प्रियाश्च तास्तथोक्तास्तासां सुरतानि- मैथुनानि तैः, तानि न सेवेऽहमित्यर्थः ।
तथा वहेयं- वहामि । किम् ? उदकं- जलम् । कस्मै ? तस्मै- कवये । केन ? घटकपरेण- कुम्भखण्डेन । येन परेण- अन्येन कविना जीयेयपराभूयेय । कोऽसौ ? अहम् । कैः ? यमकैः । किं कृत्वा वहेयम् ? आलभ्य- प्राप्य । किं तद् ? अम्बु- जलम् । कीदृशम् ? करकोशपेयंहस्तमुकुलपातव्यम् । कीदृशोऽहम् ? तृषित:- पिपासितः सन् ॥२१॥ श्रीपूर्णतल्लगच्छसम्बन्धिश्रीवर्धमानाचार्य-निजपदस्थापित-श्रीशान्तिसूरिविरचिता
घटकर्पराख्यकाव्यवृत्तिः समाप्ता ॥ घटकर्परकाव्यस्य, वृत्तिं कृत्वा सुनिर्मलाम् । यदर्जितं मया पुण्यं, तेन निर्वान्तु देहिनः ।। ताडपत्रादुत्तीर्णा । संवत् १९५१ भाद्रशुक्ल ८म्यां भृगुदिनोऽयम् ॥श्रीः॥
* * *