SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७१ अपि सम्भावनायाम्, सम्भाव्यते एतत् । तथा जलदा- मेघा उत्कण्ठयन्ति- उत्सुकयन्ति । कान् ? पथिकान्- अध्वगान् । किं कुर्वन्त: ? स्वनन्तः- गर्जन्तः । ____ तथा शोक:- सन्तापोऽवर्धत - वर्धते स्म, तद्वनितासु- पथिकभार्यासु । किंभूतः ? अनन्त:- अपर्यवसान: । चः समुच्चये ॥५॥ छादिते दिनकरस्य भावने, खाज्जले पतति शोकभावने । मन्मथे च हृदि हन्तुमुद्यते, प्रोषितप्रमदयेदमुद्यते ॥६॥ ____प्रोषितप्रमदया- गतभर्तृकयेदं पूर्वोक्तं वक्ष्यमाणं चोद्यते- भण्यते । क्व सति ? भावने सति, भासां वनं- वृन्दं भावनं- दीप्तिवितानं तस्मिन् । कीदृशे ? छादिते- पिहिते । कस्य ? दिनकरस्य । तथा खाज्जले- पानीये, पतति- वहति सति । कीदृशे जले ? शोकभावने- सन्तापजनके। ___तथा मन्मथे- कामे सति । कीदृशे ? उद्यते- सोद्यमे । किं कर्तुम् ? हन्तुं- ताडयितुम् । क्व ? हृदि- मनसि । कैः ? शरैरिति शेषः ॥६॥ सर्वकालमवलम्ब्य तोयदा, आगताश्च दयितो गतो यदा । निघृणेन परदेशसेविना, मारयिष्यथ हि तेन मां विना ॥७॥ ___ हे तोयदा!- मेघाः । हिर्व्यक्तम् । मारयिष्यथ- विनाशयिष्यथ । के ? यूयम् । काम् ? माम् । कथम् ? विना- अन्तरेण । केन ? तेन- प्रियेण । कीदृशेन ? परदेशसेविना- अन्यदेशरतेन । तथा निघृणेन- निष्करुणेण । कीदृशा यूयम् ? आगता- उपस्थिताः । किं कृत्वा ? अवलम्ब्य- विलम्ब्य । क्व ? सर्वकालम् । कदा आगताः ? यदा गतो- गमनप्रवृत्तः । कोऽसौ ? दयितो- वल्लभः । ___ "आगताः स्थे"ति पाठान्तरम् । तत्र चाऽयमर्थः - प्राप्ता यूयं स्थभवथेति ॥७॥ ब्रूत तं पथिकपांशुलं घना!, यूयमेव पथि शीघ्रलङ्घनाः । "अन्यदेशरतिरद्य मुच्यतां, साऽथवा तव वधूः किमुच्यताम् ?" ॥८॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy