________________
ओक्टोबर-२०१६
८७
सेन्द्रायुधश्च जलदोऽद्य रसन्निभानां,
संरम्भमावहति भूधरसन्निभानाम् ॥३॥ तथा निशि- रात्रौ, न भाति- न शोभते । किं तद् ? नभ- आकाशम् । कीदृशम् ? वितारं- विगतास्तारास्तारका यत्र तत् तथोक्तम् । ____ तथा निद्रा- स्वापश्चाऽभ्युपैति- प्राप्नोति । कम् ? हरिं- विष्णुम् । कीदृशम् ? सुखसेवितारं- सुखं सेवते- अनुभवतीति सुखसेवितारम् । चः समुच्चये । यद्वा शुभसेविताऽरम् । निद्रा वा कीदृशी ? शुभसेविता । शुभेनकल्याणेन सेविता- श्रिताऽरं- शीघ्रमभ्युपैति । ___ तथा जलदो- मेघः संरम्भम्- आटोपमावहति- बिभर्ति । क्व ? अद्य- अधुना । कीदृशः ? सेन्द्रायुधः- इन्द्रचापसहितः । किं कुर्वन् ? रसन्- गर्छन् । केषां संरम्भम् ? इभानां- करिणाम् । कीदृशानाम् ? भूधरसन्निभानां- गिरितुल्यानाम् ॥३।। सतडिज्जलदार्पितं नगेषु, स्वनदम्भोधरभीतपन्नगेषु । परिधीररवं जलं दरीषु, प्रपतत्यद्भुतरूपसुन्दरीषु ॥४॥ ___तथा प्रपतति- वहति । किं तत् ? जलं- पयः । कासु ? दरीषुकन्दरासु । कीदृशीषु ? अद्भुतरूपसुन्दरीषु- अद्भुतमाश्चर्यकारि यद् रूपं, तेन सुन्दर्य:- शोभनास्तासु । कीदृशं जलम् ? परिधीररवं- गम्भीरशब्दम् । तथा सतडिज्जलदार्पितं- सविद्युन्मेघमुक्तम् । केषु ? नगेषु- पर्वतेषु । कीदृशेषु ? स्वनदम्भोधरभीतपन्नगेषु- गर्जन्मेघत्रस्तसपेषु ॥४॥ क्षिप्रं प्रसादयति सम्प्रति कोऽपि तानि,
कान्तामुखानि रतिविग्रहकोपितानि । उत्कण्ठयन्ति पथिकान् जलदाः स्वनन्तः,
शोकोऽप्यवर्द्धत च तद्वनितास्वनन्तः ॥५॥ कोऽपि- कश्चिदप्यनिर्दिष्टनामा, क्षिप्रं- शीघ्रं, प्रसादयति- परितोषयति । क्व ? सम्प्रति- इदानीम् । कानि ? कान्तामुखानि- प्रियाननानि । कीदृशानि सन्ति ? रतिविग्रहकोपितानि- रतौ- सुरते, विग्रहो- युद्धं, तेन कोपितानिविमुखानि । कथम्भूतानि ? तानि- प्रसिद्धानि चन्द्रसमादीनि ।