________________
८६
अनुसन्धान-७१
निचितं खमुपेत्य नीरदैः, प्रियहीनाहृदयावनीरदैः । सलिलैर्निहितं रजः क्षितौ, रवि-चन्द्रावपि नोपलक्षितौ ॥१॥ ___"प्रोषितप्रमदयेदमुच्यते" इति वक्ष्यति (श्लो. ६) । ततश्चाऽयमर्थः - प्रोषितप्रमदया- गतभर्तृकया सख्या अग्रत इदं पूर्वोक्तं निचितमित्यादिकं वक्ष्यमाणं चोच्यते । हे सखि! । कीदृशि! ? कुन्दसमानदन्ति!- कुन्दकलिकासमदशने! । निचितं- छन्नम् । किं तत् ? खमाकाशम् । कैः ? नीरदैः । कीदृशैः ? प्रियहीनाहृदयावनीरदैः- प्रियेण- भा, हीना- रहिताः काश्चिन् मृतेन देशान्तरगतेन वा, तासां हृदयं- चित्तं, तदेवाऽवनी- भूमिः, तां रदन्तिविदारयन्तीति ते तथोक्तास्तैः, गतभर्तृका-मनोदाहदैरित्यर्थः । किं कृत्वा निचितम् ? उपेत्य- आगत्य । ___ तथा सलिलै लैर्निहितं- स्थापितम् । किं तद् ? रजो- धूलिः । कस्याम् ? क्षितौ- भूमौ । तथा रविचन्द्रावपि नोपलक्षितौ- मेघैराच्छादितत्वाद् न दृष्टौ ॥१॥ हंसा नदन्मेघभयाद् द्रवन्ति, निशामुखान्यद्य न चन्द्रवन्ति । नवाम्बुमत्ताः शिखिनो नदन्ति, मेघागमे कुन्दसमानदन्ति! ॥२॥
तथा हंसा:- चक्राङ्गा, द्रवन्ति- गच्छन्ति । कस्मात् ? नदन्मेघभयाद्गर्जद्घनत्रासात् ।
तथाऽद्याऽधुना निशामुखानि- प्रदोषा न वर्तन्ते । कीदृशानि ? चन्द्रवन्ति- शशियुक्तानि ।
तथा शिखिनो- मयूरा, नन्दन्ति- शब्दायन्ते । कीदृशाः सन्तः ? नवाम्बुमत्ता:- नूतनजलहृष्टाः ।
एतत् सर्वं कस्मिन् काले ? मेघागमे- मेघानामागमो यस्मिन् काले, मेघागमो वर्षाकालस्तस्मिन् । कुन्दसमानदन्ति!, व्याख्यातमेतत् ॥२॥ मेघावृतं निशि न भाति नभो वितारं,
निद्राऽभ्युपैति च हरिं सुखसेवितारम् १. इदं पदमग्रेतनश्लोकस्थम् ।