SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ स्वायु:स्वरूपमाकर्ण्य, मुनिचन्द्रर्षिचक्रिणः । स्थापयामासुराचार्यां-मू(स्त)दानीमात्मसन्निधौ ॥४६॥ श्रीसिद्धान्तानुगां तत्र, भवनिर्वेदकारिणीम् । चक्रुः पीयूषदेशीयां, देशनां देवसूरयः ॥४७॥ किञ्च - भव्याः! शीलं सदा पाल्यं, भाग्यसौभाग्यकारणम् । अमन्त्र-तन्त्र-मूलं स्व-र्मोक्षलक्ष्म्याश्च कार्मणम् ॥४८॥ समीपे सम्पदः सर्वा-स्तस्याऽऽदेशकराः सुराः । कीर्तिः स्फूर्तिमियीह, यस्य शीलं विभूषणम् ॥४९॥ सिद्धयोऽप्यणिमाद्यास्ताः, स्युः सदा तस्य पार्श्वगाः । मित्रन्ति शत्रवोऽप्युच्चै-र्यस्य शीलं विधे(धो)ज्ज्वलम् ॥५०॥ अचौर-भूमिभृद्वा(धा)र्य-मद्वितीयं सनातनम् । नराणामङ्गनानां च, शीलमेव विभूषणम् ॥५१॥ यान्त्यापदः क्षयं तेषां, व्याघ्र-व्याला-ऽनलादिकाः । पापपङ्कजलं शै(शी)लं, ये सदा बिभ्रते नराः ॥५२।। शीलमञ्जनसुन्दर्या, सत्येवाऽनन्यचेतसा । दुष्पालं पाल्यते येन, स स्यात् कल्याणभाजनम् ॥५३॥ तथाहि - द्वीपस्य जम्बूपपदस्य दत्त-हर्षप्रकर्षे भरताख्यवर्षे । वैताढ्यनामा गिरिरस्ति विद्या-धरोभयश्रेणियुगादिशुभ्रः ॥५४॥ बुधानुपास्तं वृषभूषितं च, सदप्सरःसंहतियुक्तमस्ति । तत्र श्रियाऽऽदित्यपुरं पुरं स्वः-पुरोपमं न त्वकुलीनसेव्यम् ॥५५॥ वज्रीव तस्मिन्नरिचक्रवाल-कालप्रतापस्फुरदालवालः.... (एतावदेवोपलब्धमिदं काव्यम्)
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy