________________
अनुसन्धान-७१
वर्षं ममेदमखिलं जिन! जातहर्ष, मासोऽप्ययं सकलमङ्गलसन्निवासः । श्रीवासरः पुनरजायत वासरोऽसौ. यल्लोचनातिथिरभूत् त्वमनङ्गजेतः! ॥३३॥ नाभेयदेव! तव पादपयोरुहेऽस्मिन्, रोलम्बतां दधदहं भुवनावतंस! । लोकोत्तरं किमपि शर्म समासदं तद्, यस्याऽग्रतः सुरसुखान्यपि नो गुरूणि:(णि)।३४। पोतस्य मध्यमधिगम्य तरन्ति सिन्धु, लोका युगादिजिनचन्द्र! किमत्र चित्रम् ? । दृष्टे पुनस्त्वयि विभो! मरुदेविमातुः, पोते भवाब्धिमतरंस्तदतीव चित्रम् ॥३५।। नीति त्वयोपदिशता जगतां हितां तां, धर्त्यां कृपामुदुहृदा व्यवहारशुद्धाम् । सत्यापिताऽवनितले नियतं युगादौ, श्रीनाभिभूरिति कथा प्रथिता जिनेन्द्र! ॥३६|| त्वं पुण्डरीकनयनः पुरुषोत्तमस्त्वं, लक्ष्मीसमाश्रितवपुश्च सनातनस्त्वम् । त्वं तारकारिरमरा→पदाच्युतस्त्वं, श्रीनाभिसम्भव! परं न जनार्दनोऽसि ॥३७॥ मृत्युञ्जयस्य भुवनत्रितयेश्वरस्य, कन्दर्पदर्पदलनस्य च शङ्करस्य । सर्वज्ञतामधिगतस्य जटाधरस्य, युक्ता विभाति भवतो वृषभासितेयम् ।।३८।। इति वृषभजिनोऽसावर्बुदाद्रौ निविष्ट(ष्टो), विमलवसतिकायां विश्वविश्वातिशायी। दिविषदधिपवृन्दैर्वन्द्यपादारविन्दो, दिशतु सुखसमिद्धं पूर्णभद्रं पदं मे ॥३९॥ स्तुत्वा जिनं ततश्चारु-फलिनीतरुसन्निधौ । अम्बिकायै स्तुतिं दातुं, ययुः श्रीदेवसूरयः ॥४०॥ स्तुतिं दत्त्वा प्रचेलुस्ते, यावन्नागपुरं प्रति । ततः(तावत्) स्त्रीरूपमाधाय, वन्दित्वाऽवोचदम्बिका ॥४१॥ श्रीजैनशासनाधार!, मा गा नागपुर:पुरम् । तयो(यतो)ऽवशिष्यते मासा-ष्टकमायुर्भवद्गुरोः ॥४२॥ त्वं तु तीर्थोन्नतेः कर्ता, जैनशासनभास्करः । दुःखमादूषणैर्वत्स! कदाचिन्नैव लिख्य(खिल्य?)से ॥४३॥ अथाऽम्बा जगतामम्बा, जल्पिच्चैवं(त्वैवं) तिरोदधे । व्यावृत्त्य पत्तनमगु(गुः), तच्छ्रुत्वा प्रभवः पुनः ॥४४॥ नत्वा(त्वो)चुस्ते यथावृत्त(त्तं), स्वगुरुभ्यो गुणार्णवाः । जहषुर्गुरवोऽप्यन्तः, श्रुत्वा तद् दैवतं वचः ॥४५॥