SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७६ अनुसन्धान-७१ अगण्यपुण्येन च तेन देवः, स ब्रह्मलोकेऽजनि दीप्रकान्तिः । च्युत्वा ततो यत्र बभूव भव्या-स्तच्छूयतां साम्प्रतमेकचेतैः ॥३४६।। अस्यैव पूर्णेन्दुसमस्य जम्बू-द्वीपस्य रम्यैरवताख्यवर्षे । । देवः स काम्पील्यपुरे महेभ्य-पुत्रोऽजनिष्ट धुभवायुरन्ते ॥३४७|| तत्राऽपि विद्वान् परमा(म)द्धिमांश्च, सुश्रावकत्वं प्रतिपाल्य सम्यक् । मृत्वाऽच्युतेऽभूत् त्रिदशस्ततोऽसौ, च्युत्वा महात्माऽजनि वीरभद्रः ॥३४८|| पुण्येन तेनेह भवेऽपि पुण्या-नुबन्धिना बन्धुरमूतिरेषः । भुङ्क्ते सुभोगान् ननु यत्र तत्र, पुण्यं हि नित्यानुचरं जनानाम् ॥३४९।। एवं समाख्याय जिनाधिनाथः, सम्बोध्य भव्यान् सुखशाखिपाथः । विध्वंसयन् विश्वतमस्तमोरि-रिवाऽन्यतोऽगाद् विहरन्नराख्यः ॥३५०|| तद्दानोद्भवपुण्यतस्तु तिसृभिस्ताभिः समं [यौवने], लावण्यामृतकूपिकाभिरसमान् संसेव्य भोगांश्चिरम् । चारित्रं [परि]पाल्य कुन्दविशदं श्रीवीरभद्रस्ततः, सक्षेत्रोऽपि दिवं जगाम सशिवं याता शिवं च क्रमात् ॥३५१।। चरित्रं त्विदं वीरभद्रस्य लोका-स्सकर्णाः समाकर्ण्य कर्णामृताभम् । सदा पूर्णभद्रपदे दानधर्मे, विधत्त प्रयत्नं विवेकप्रधानम् ॥३५२।। इत्यादिसद्धर्मकथासुधाम्बु-सेकात् तडित्वानिव रामचन्द्रः । तदा स तत्राऽकृत साधुलोकान्, कृपार्णवः संसृतितापमुक्तान् ॥३५३।। गम्भीरतां तस्य जितेन्द्रियत्वं, युगप्रधानागमतां च दृष्ट्वा । श्रुत्वा जनाद् वादिजयप्रशस्ति, सम्भूय हर्षातिशयोक्तचित्तः ॥३५४|| अस्मन्मुदे सूरिपदप्रतिष्ठा, विधीयतां सम्प्रति रामचन्द्रे । इत्यह्निकान्ते मुनिचन्द्रसूरी-नभ्यर्थयामास समस्तसङ्घः ॥३५५॥ युग्मम् ।। व्याह(हा)रं तं यतिपरिवृढाः सर्वसङ्घोक्तमुच्चरूरीचक्रुर्गणधरपदस्योचित्तं तं विदित्वा ।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy