________________
७४
अनुसन्धान- ७१
रत्नाकरादुद्धृतमात्र एवा - ऽपकृष्य वक्त्रात् गुटिकां प्रवीणः । श्यामत्वदां गौरतनुर्बभूव, स्थितः स पुर्यामिव ताम्रलिप्त्याम् ॥३२२॥ श्रीसिंहलद्वीपनिवासनं स्वं तत्राऽभिधानेन च बुद्धदासम् । शशंस पृष्टः स गुणैरभीष्टो, विधाधरेन्द्रो (न्द्र) रतिवल्लभस्य ॥ ३२३ ॥ रत्नप्रभाख्यां तनयां सुरूपां स तेन दत्तां लघु पर्यणैषीत् । सुखेन तस्थौ रमयंश्च धीमान्, नानाविलासोपवनादिषूच्चैः ॥३२४॥ तया सह क्रीडितुमन्यदैतत् प्रतिश्रयद्वारभुवं स आगात् । मुक्त्वाऽह(थ) तामाचमनछलाच्चा - ऽन्यतोऽगमत् तत्क्षणमेव सभ्याः ! || ३२५|| यास्याम्यहं साम्प्रति(त)मेवमुक्त्वा, समुत्थितो वामनकः स सद्यः । ऊचे च रत्नप्रभया स बुद्ध - दासोऽधुना कुत्र वद प्रसद्यः (द्य) ॥३२६॥
निवेदयिष्याम्यपरं प्रगेऽह-मुक्त्वेत्यथाऽऽसीदनिव (वे) दितात्मा । संवादतस्ता (ताः) पुनरेकपत्युं - स्तिस्रोऽपि सत्योऽलमुदश्वसंश्च ॥ ३२७॥ धीसागरः सागरदत्त! युष्म- ज्जामातृको वामनकः स एव । पतिव्रतानां तिसृणां च तासां, पतिर्विनोदेन ददौ वियोगम् ॥३२८॥ तदा जगादेति स वामनोऽपि, प्रणम्य वाचंयममुख्यमुख्यम् । नह्यन्यथा विश्वनमस्य! युष्मद्-ज्ञाने क्षणालोकितमेवमेतत् ॥ ३२९॥ द्वितीयपौरुष्यवसानकाले, कुम्भाभिधानो गणधारिधुर्यः । सद्देशनां तां विससर्ज तावत्-कालैव तेषां किल देशना यत् ॥३३०॥ प्रणम्य कुम्भं गणधारिमुख्यं, सहैव दक्षेन स वामनेन । श्रेष्ठी ययौ सागरदत्तनामा, प्रतिश्रयं तं मुदितो गणिन्याः ||३३१ || आयान्तमालोक्य च वामनं तं, तिस्रोऽपि तास्तत्क्षणमेव पल्यः । उपाययुः सुन्दरपत्युदन्त - हरश्चरः कस्य न वल्लभो हि ? ||३३२|| प्रोचे मुदा सागरदत्तनामा, श्रेष्ठी पतिर्वस्तिसृणामयं हि । ताभिः कथङ्कारमिति न्यगादि, तदा बभाषे सकलं स इभ्यः ॥३३३॥
१. भर्तुः । २. मेन ( मुख्यम् इन ! ) पाठां. टि. ।