________________
ओक्टोबर-२०१६
७३
दिने द्वितीयेऽप्यगमत् तथैव, प्रतिश्रयं वामनको गणिन्याः । अत्यादृतानां तिसृणां च तासां, कथामिति व्याहरति स्म भूयः ॥३१०।। निर्गत्य पुर्या निशि वीरभद्रो, भूत्वा च कृष्णो गुटिकाप्रयोगात् । अटन्ननेकान्युपवर्तनानि, स सिंहलद्वीपमथाऽऽससाद ॥३११॥ तत्राऽसमे रत्नपुरे महेभ्य-शङ्खापणेऽथो निषसाद धीमान् । स श्रेष्ठिना श्रेष्ठतमेन तेन,
.................. ॥३१२॥
................
तस्थौ सुखं तत्र पुरे जनानां, नित्यं कलाभिः कृतविवसय(विस्मय)श्च ॥३१३॥ स श्रेष्ठिपुत्र्या विनयाच्च वत्य-भिधानया सार्द्धमगात् कदाचिद् । अनङ्गसुन्दर्यवनीशकन्या-गृहेऽबलावेषधरः कलावान् ॥३१४॥ कामं कलाभिर्हतमानसां तां, स ज्ञापितात्मा क्रमशः सुलग्ने । हर्षदुपायंस्त पिनृ(तृ)प्रदत्ता(तां), यदृच्छयाऽभुक्त चिरं च भोगान् ॥३१५।। भार्यां गृहीत्वा व्रजतश्च तस्य, तां ताम्रलिप्ती नगरी प्रति द्राक् । दुर्दै(4)वयोगान्जलधावकस्मात्, सहाऽऽशयाऽभज्यत यानपात्रम् ॥३१६।। अहं व्रजिष्याम्यधुना त्ववश्यं, भूपालसेवावसरोऽयमाप्ताः(प्तः) । सवां(सेवां) विना भूपतिसेवकाना-माजीविका भज्यत एव यस्मात् ॥३१७॥ अनङ्गसुन्दर्यभिधा ततः सा, तं वामनं स्माऽऽह च सोपरोधम् । स वीरभद्रोऽस्त्यधुना क्व ? भद्र!, ब्रूहि प्रसाद्याऽन्यजनोपकारिन्! ॥३१८|| सुश्राविके! श्वः कथयिष्यतेऽद, उक्त्वेति भूपालगृहं ययौ सः । तमाशु वृत्तान्तमिलाधिपाय, गत्त्वा शशंसुः क्षितिभृत्पुमांसः ॥३१९।। ततस्तृतीयेऽपि दिने स तत्रा-ऽऽगत्यैवमुच्चैर्वदति स्म खर्वः । श्रीवीरभद्रः शुभकर्मयोगात्, प्राप प्रशस्यं फलकं तदैकम् ॥३२०॥ ततः कृपावान् समुपाजगाम, विधाधरेशो रतिवल्लभाख्यः । विलोकयामास च तं निनाय, वैताढ्यशैले निजमन्दिरे श्राक् ॥३२१॥