________________
७२
सद्वृत्तकं तर्हि निवेद्यतामि-त्युक्तेऽवदद् वामनकः पवित्रे । क्षेत्रेऽत्र नाम्ना भरते समृद्धा, श्रीताम्रलिप्त्यस्ति पुरी प्रसिद्धा ॥ २९८ ॥ युक्तः समृद्ध्यर्षभदत्तनामा, श्रेष्ठी गुणैः श्रेष्ठतरोऽस्ति तस्याम् । वणिज्यया सार्थयुतोऽन्यदाऽगात्, सपद्मिनीखण्डपुरं वयस्याः ! ||२९९|| मनोरमां सागरदत्तकन्यां विलोक्य तत्र प्रियदर्शनाख्याम् । स वीरभद्रेण निजाङ्गजेनो- दवाहयत् सर्वकलार्णवेन ||३००|| तया समं वैषयिकं सुखं सो- न्वभून्नितान्तं कतिचिद्दिनानि । तामर्धरात्रे गृहीणीमलीक - सुप्तामुदस्थापयदन्यदा च ॥३०१|| मा मां विभो! जातशिरोर्तिमुच्चैः, कदर्थयेत्थं वदति स्म साऽपि । दोषेण कस्येत्यथ तेन वो (चो) क्ते, तवैव दोषेण जगाद शैवम् ॥३०२॥
तमात्मदोषं लघु तेन पृष्टा, सा भाषते स्म प्रियदर्शनाऽथ । अनेहसीदृश्यपि यद्यवाय-स्तवाऽयमस्त्युत्कटकामधामन्! ॥३०३॥
अनुसन्धान- ७१
१
नैवं करिष्यामि पुनः प्रियेऽह - मुक्त्वेति तां सोऽरमयन् नितान्तम् । स्वभावसुप्तां च विहाय तस्याः पतिर्विदेशे व्रजति स्म सद्यः ||३०४ ||
,
आभाष्य धीमानिति वामनस्तु ममाऽधुना राजकुले कुलीनाः । सेवाक्षणोऽतिव्रजतीत्युदस्थात्, ससम्भ्रमस्तत्क्षणमिङ्गितज्ञः ॥ ३०५ ॥
१. जीवितेश !, विदग्धता किं सुतरां तवैषा ?
तं सादरं सा प्रियदर्शनाख्यो- त्तिष्ठन्तमेवं पुनरप्यवोचत् ।
स वीरभद्रः क(क्व) गतोऽस्ति भद्र!, ब्रूहि ध्रुवं वामन! वेत्सि यत् त्वम् ॥३०६|| अथैवमाह स्म स वामनोऽपि, परस्त्रिया सार्द्धमहं कदाचित् । जल्पामि न स्वल्पमपीन्दु - कुन्दो-ज्ज्वलस्ववंशैककलङ्कभीतः ॥३०७॥ स्मित्वा[ऽवद]त् साऽपि कुलोचितं हि शीलं यश: कारि किमुच्यते ते ? | दाक्षिण्यतो नः कथयाऽग्रतस्तद्-गुणाः कुलीनस्य यदादिमोऽयम् ॥३०८॥ श्वः शंसिता तर्हि पतिव्रतेऽह - मेवं गहि (दि) त्वा लघु वामनोऽगात् । तस्मिन्नुदन्ते कथितेऽवसर्पे(पैं)-वि (वि) सि(षि)ष्मयेऽत्यर्थमिलाधिपोऽपि ॥३०९॥
इति पाठा० टिप्प