________________
ओक्टोबर-२०१६
७१
तिस्रोऽपि ताः सख्य इवैकचित्ता-स्तपो-जिनार्चा-ऽध्ययनैकनिष्ठाः । पुंकिंवदन्तीमपि वर्जयन्त्यः, प्रतिश्रये निर्मलमानसायाः ॥२८७||* तिस्रो रमण्यो नवयौवनस्था, महात्मिकाः सत्यभिरामगात्राः । धात्रीपवित्रीकरणानि तस्या-स्त्रीण्येव रत्नानि तमोपहानि ॥२८८॥ शुद्धाशयास्ताश्च सती: सतीः स्य(स्व)-कुलोचितेऽध्वन्यधरीकृताथे(ऽन्ये) । कश्चित् पुमान् भाषयितुं न चाऽल-म्भूष्णुः कला-रूप-गुणान्वितोऽपि ॥२८९|| अथो मृषावामनकः स ऊचे, क्रमादहं ताः खलु भाप(ष)यिष्ये । समर्थता(तां) पश्यता(त) मामकीनां, कर्मण्यमुष्मिन्नयि(पि) दुष्करेऽद्य ॥२९०।। परिकृ(ष्कृ)तो राजनरैः कियद्भि-रपि प्रधानैर्गुण-शीलवद्भिः । अन्वीयमानो विविधैश्च पौरैः, स सुव्रताया वसति जगाम ॥२९१।। प्रतिश्रयद्वारभुवि स्थितः स, इत्यन्वशात् तान् सहचारिणः स्वान् । तस्मिन् भवद्भिः परिपृच्छनीयं, कथामपूर्वां वद कामपि त्वम् ॥२९२॥ प्रतिश्रयं तं स ततो विविक्त-परिच्छदः प्राविशदस्तदोषः । श्रीसुव्रताख्यां गणिनी च वन्दे, शुद्धव्रतास्तद्वतिनीश्च पश्चात् ॥२९३।। निर्गत्य बाह्ये गुरुमण्डपे स, उपाविशद् वामनरूपधारी । आयासिषुस्ता व्रतिनीसमेता-स्तिस्रोऽपि तदर्शनकौतुका(को)त्काः ॥२९४|| अथाऽवदद् वामनकोऽपि यावत्, सेवाक्षणो नाऽवनिवल्लभस्य । स्थास्याम एवाऽत्र वयं विनोद-व्याक्षिप्तचित्ताः शुभभाजि! तावत् ॥२९५॥ कश्चित् ततो राजपुमानवोचत्, सकौतुकां शंस कथां कलाब्धे! । किं सुन्दरां वच्मि कथामथाऽहं, सद्वृत्तकं वामन इत्यवादीत् ॥२९६।। पृष्टः कथा-वृत्तकयो(:) सुभेदं, प्रोचे मृषावामनकः प्रवीणः । आत्मानुभूतं भुवि वृत्तकं प्राक्-पुंसां चरित्रं च कथामुशन्ति ॥२९७॥
★ अत्रान्तरे ईशानचन्द्रराजसभायां तासां तिसृणां रमणीनां विषये या कथा प्रवृत्ता तत्सूचकः श्लोकः पतितोऽस्ति । दृश्यतां त्रिषष्टि० ६।२।३१४ ।