________________
७०
अनुसन्धान-७१
इत्यभ्यधाच्च व्रतिनी गुणज्ञे!, का त्वं ? कुतोऽदः पुरमागताऽसि ? । एकाकिनी वा(चा)ऽत्र कुतो(त)श्च हेतो, रोदिष्यनाथा हरिणीव तारम् ? ॥२७५॥ प्रणम्य साऽवोचदिहाऽहमागा(गां), वैताढ्यशैलात् सह वल्लभेन । अद्याऽपि साध्या(स आ)व(च)मनाय यातः, प्राणेश्वरो मे चिरयत्यतीव ॥२७६।। मुहूर्तमप्यम्ब! न मां विना स, स्थातुं कदाचित् सहते कलावान् । आशङ्कते तेन मदीयमेत-च्चेतो महत्कारणमातुरं सत् ॥२७७।। सा सानुकम्पं गणिनी बभाषे, पतिव्रताग्रेसरि! मा स्म भैषीः । प्रतिश्रये तिष्ठ सुखेन तावद्, यावन्(त्) समायाति स वल्लभस्ते ॥२७॥ अनन्यसामान्यगुणं ग(गु)णशं, सस्नेहमद्वैतकलं सुरूपम् ।। एतर्हि तं रुच्यमृते न मातः!, प्राणानहं धारयितुं समर्था ॥२७९॥ एवं गणिन्या प्रतिबोधितोच्चैः, प्रतिश्रयं सा प्रविवेश सद्यः । स्थाने गतां वीक्ष्य सर्मिणी स्वा-मया(पा)सरत् सोऽपि महेभ्य! धूर्तः ॥२८०॥ निजेच्छया वामनरूपधारी, स पर्यटन्नत्र पुरेऽभिरामे । जहार चेतः पुरवासिनां द्राक्, प्रकाशयन्नङ्गकला विचित्रा: ।।२८१॥ ईशानचन्द्रावनिपालमप्य-त्यर्थं सदा रञ्जयति स्म सोऽथ । एकाऽपि चित्तं हरते कला स(य)त्, पुंसां पुनः किं सकला: कलास्ताः? ॥२८२।। अनङ्गसुन्दर्यभिधा कुलीन!, त्वदात्मजा च प्रियदर्शनाख्या । रत्नप्रभां तामिति जल्पते स्म, कस्ते पतिः ? सुन्दरि! कीदृशश्च ? ॥२८३।। रत्नप्रभाऽपीति जगाद बुद्ध-दासाभिधानो मम जीवितेशः । श्रीसिंहलद्वीपनिवास्यशेष-कलानिधिः स्वर्णसुवर्णवर्णः ॥२८४|| अथाऽऽचचक्षे प्रियदर्शनाऽपि, स संवदत्येव ममाऽसुनाथः । त(न) सिंहलद्वीपनिवासिता तु, न बुद्धदासेत्यभिधा च सख्ये! ॥२८५॥ अनङ्गसुन्दर्यवदत् तदानीं, वर्णस्तथा सिंहलवासिता च । विसंवदत्यद्भुतबुद्धदासा-भिधा च मद्भर्तुरुपेन्द्रमूर्तेः ॥२८६।।