SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ तत्राऽनमच्छाश्वतवीतराग-मूर्तीः स भक्त्या जिनमन्दिरान्तः । रत्नप्रभाऽप्यद्भुतगीतनृत्त-प्रभृत्यकार्षीच्च जिनेश्वराग्रे ॥२६३।। सोऽथाऽऽचचक्षे विकचाम्बुजाक्षि!, देवो मयाय(ऽयं) न विलोकितोऽग्रे । श्रीसिंहलद्वीपनिवास्यहं यद्, बुद्धाभिधानः कुलदेवता मे ॥२६४|| रत्नप्रभाऽपि प्रतिभाषते स्म, हेतोस्ततस्त्व(स्त्वं) प्रिय! भाषसेऽदः । देवो ममाऽदृष्टचरोऽयमर्हत्(न्), परोपकार्येष तु देवदेवः ॥२६५।। भावारिदन्ताबलपञ्चवक्त्र-स्त्रैलोक्यपूज्यः सकलार्थवेदी । यथास्थिताशेषपदार्थदर्शी, देवो जिनेन्द्रः शिव-सौख्यकारी ॥२६६।। देवा न बुद्धा-ऽम्बुरुहासनाद्याः, स(सं)सारयाद:पतिपातिनोऽमी । मोहादिचिह्न स्फुटमात्मनोऽपि, सदाऽक्षसूत्रादि च धारयन्तः ॥२६७।। नानाविधाभी रममाणयोः सत्-क्रीडाभिरुच्चैर्विदुषोस्तयोश्च । काल: कियानप्यगमत् सदर्प-कन्दर्पकेल्यम्बुधिमग्नतन्वोः ॥२६८।। स बुद्धदासो रजनीविरामे-ऽन्यदा जगाद प्रणयप्रधानम् । रत्नप्रभे! दक्षिणभारता॰, रेतुं(रन्तुं) व्रजावश्चिरकालतोऽद्या(द्य) ॥२६९॥ आमेति जल्पत्यथ सा विनीता, स धूर्तराजोऽपि च विद्यया द्वौ । श्रीपद्मिनीखण्डपुरे प्रयातो(तौ), प्रतिश्रयं सुव्रतसुव्रतायाः ॥२७०॥ स्थित्वा क्षणं तद्वसतेरुपान्ते, तदा जगौ तामिति वीरभद्रः । आचम्य चाऽऽयामि कृशाङ्गि! यावन्-मदाज्ञया तावदिहैव तिष्ठेः ॥२७१॥ उक्त्वेति भूमिं कियती वजित्वा, तद्रक्षणार्थं पुनरस्तदोषः ।। तत्रैव तस्थौ स निलीय सम्यक्, सद्राजकीयस्पशवन् महेभ्य! ॥२७२।। एकाकिनी चक्र(क्रि)कुटुम्बिनीच(व), क्षणान्तरादूर्ध्वमनल्पशोका । सा रोदितुं हाऽऽरभते स्म तारं, स्त्रीणां स्वभावः स्फुटमीदृशोऽयम् ॥२७३।। श्रुत्वा तदीयं करुणं निनादं, श्रीसुव्रताऽथो करुणास्रवन्ती । उद्घाटयामास कपाटयुग्मं, स्वयं ह(द्रुतं तां च विलोकते स्म ॥२७४।। १. परिशुद्धबोधः इति पाठान्तर टिप्प. । २. संदर्पितचित्त-तन्वोः इति पाठान्तर टिप्प. ।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy