SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ ६७ संस्मृत्य सैवं विधिनाऽऽशु पूर्वा-भ्यस्तेन निःशेषकलाप्रवीणा । आगत्य पादानथ सुव्रताया:(या), मुदा ववन्दे व्रतिनीश्च सर्वाः ॥२३९।। श्रीसिंहलद्वीपगतानि मात-श्चैत्यानि वन्दस्व गिरा मम त्वम् । ललाटपट्टे रचिताञ्जलिः सा, श्रीसुव्रतामित्यभणत् तदानीम् ॥२४०।। तां सुव्रताऽपीत्यवदत् पवित्रा, श्रीसिंहलात् किं समुपागताऽसि ? | एकाकिनी त्वं कथमाकृतिर्य-नैषा न घे(हि) स्यात् परिवारहीना ॥२४१।। सुस्था भणिष्यामि समस्तमेव-मुक्ता तया सार्द्धमखण्डशीला । श्रीसुव्रताख्या गणिनी जगाम, प्रतिश्रयं स्वं सपरिच्छदाऽपि ॥२४२॥ तां वन्दमानां बहुमानपूर्वं, निरस्तमानां व्रतिनी: समस्ताः । श्रेष्ठिन्! ददर्श प्रियदर्शनाख्या, तत्राऽऽत्मजा ते प्रियदर्शनोच्चैः ॥२४३।। पृष्टा च सा सुव्रतया गणिन्या, तदा भवनन्दनयाऽपि चौच्चैः । निवेदयामास निजं स्वरूपं, श्रीसुव्रतासगणिनीक्षणान्तम् ॥२४४॥ तामाचचक्षे प्रियदर्शना च, श्रीवीरभद्रस्य चकोरनेत्रे! । कलादिसंवाद्यखिलं सखि! त्व-माचक्ष्व वर्णेन स कीदृशस्तु ? ॥२४५॥ तया व(च) श्याम इतीरिते श्राक्, प्रभाषते स्म प्रियदर्शनाऽपि । विसंवदत्येकक एव वर्णो, मत्प्राणनाथस्य न सर्वथाऽन्यत् ॥२४६।। श्रीसुव्रताख्या गणिनी जगाद, धर्मस्वसेयं प्रियदर्शना त्(ते) । सहाऽनया तिष्ठ विशिष्टधर्मा-नुष्ठाननिष्ठाऽस्यकुतोभयेह ॥२४७।। पतिव्रता सुव्रतयैवमुक्ता, श्रेष्ठिस्त्वदीयात्मजयाऽपि चाऽलम् । संदर्शितानन्यसमादराऽस्थात्, सा तत्र रत्नाकरराजपुत्री ॥२४८।। प्रवीणतास्थानमिता(त)श्च वीर-भद्रोऽपि भग्ने वहने तदानीम् । एकत्र रम्ये फलके विलग्न:, स ताड्यमान: परितस्तरङ्गः ॥२४९।। कृपैकधाम्ना रतिवल्लभेन, विद्याधरेणाऽवनिवल्लभेन । दुःखादितोऽदर्शि स सप्तमेऽह्नि, निन्ये च वैताढ्यमहीध्रमूनि ॥२५०॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy