________________
६६
अनुसन्धान-७१
कथञ्चिदुत्थाप्य निनाय बालां, निजाश्रमे स्वां भगि(नी)मिवाऽसौ । विश्रब्धचित्ता तनयेऽत्र तिष्ठे-त्युवाच तां तापसनायकश्च ॥२२८।। सा तापसीभिः प्रतिपाल्यमाना, दिनैः कियद्भिर्जननीसमाभिः । स्वच्छा(स्था) बभूव स्वपितुर्निशान्त-स्थितेव रत्नाकरराजपुत्री ॥२२९।। तदीग(य)रूपातिशयादथेति, वि(व्य)चिन्तयत् तापसनायकोऽपि । अत्र स्थितेयं मम तापसानां, समाधिभङ्गाय भवेदवश्यम् ॥२३०॥ ततः स्फुटं तापसवृद्ध ऋद्ध-स्तप:श्रिया तामिति भाषते स्म । इतो न दूरे तनये! प्रसिद्धं, श्रीपद्मिनीखण्डपुरं समस्ति ॥२३१।। प्रायेण सन्तो निवसन्ति तत्र, जनाः स्वलक्ष्म्या विजितालकेशाः । तत्र स्थिति त्वं विदधत्यवश्य-मासादयिष्यस्यभिवाञ्छितार्थम् ॥२३२॥ तत्रैव पत्या सह सङ्गमश्च, वत्से! न(भ)वत्या भविता त्ववश्यम् । तद्गच्छ तस्मिन्नगरेऽधुनैव, समं जरद्भिर्मम तापसैस्त्वम् ॥२३३।। इत्याज्ञया तापसनायकस्य, परिष्कृता वृद्धतपस्विभिश्च । सा पादचारेण मरालिकेवो-पपद्मिनीखण्डमगात् क्रमेण ॥२३४।। अस्माकमहौ(ों) नगरे प्रवेशः, पतिव्रते! नेत्यभिधाय सद्यः । बहिः पुरोऽपि प्रविहाय तां ते, व्यावृत्य सर्वेऽपि तपस्विनोऽगुः ॥२३५।। नभस्तलं संविदधत्यकाण्डे, स्वदृष्टिपातैरिव कैरवाढ्यम् । विलोकमाना] ककुभः समग्रा, यूथच्युता त्रस्तकुरङ्गकेव ॥२३६।। आगच्छ(म्य)मानां सह संयतीभिः, शरीरचिन्तार्थमनन्यशीला । श्रीसुव्रताख्यां गणिनी ददर्शा-ऽऽत्मीयां सवित्रीमिव सुव्रतां सा ॥२३७।।
- ॥ युग्मम् ॥ सस्मार चैवं विदुषी यदेवा(षा)-स्ता वल्लभेन स्वकराम्बुजेन । विश्वाभिवन्द्या अनवद्यदेहाः, पटे लिखित्वा मम दर्शिता याः ॥२३८।।