________________
ओक्टोबर-२०१६
६५
आत्मीयदेशं प्रति गन्तुकामः, कामाभिरा[म? ]स्स तया सहैव । ततः सनिर्बन्धमहंयुमाप-प्रच्छे महीपालमबालबुद्धिम् ॥२१६।। विसर्जयामास स वीरभद्रं, प्रियान्वितं भूमिपतिः कथञ्चित् । या(जा)मातृ-पुत्रीविषयो वियोगः, प्र(प्रा)यो यत: कस्य न दुस्सहः स्यात् ? ।२१७/ जलाध्वनाऽतो गुरुयानपात्रा-रौ(रू)ढौ ततश्चेलतुरेकचित्तौ । प्रवर्तनं सत्त्वर(व)तां समानं, जलस्थलाध्वद्वितयेऽपि यस्मात् ॥२१८।। धनुर्लतोन्मुक्त इवाऽऽशुगः स, नीडोत्थितः पक्षिवदर्णवान्तः । ततः प्रकामं प्रससार पोतो-ऽनुकूलवातेरित इष्टदायी ॥२१९॥ कियन्तमप्यत्यगमत् स पोतो-ऽध्वानं च यावत् पवनानुकूल्यात् । कल्पान्तवान्तप्रतिमस्तु तावन्-महासमीरः प्रववावकस्मात् ॥२२०।। तदैव कल्पान्त इवाऽऽपगेशः, समुद्भू(भ्र)मन् भीषणमूर्तिरुच्चैः । उला(ल्ला)लयामास वहित्रकं तन्-मत्तद्विपेन्द्रस्तृणपूलवद् द्राक् ॥२२१।। उच्छाल्यमानं मुहू(हु)रूमिवृन्दै-विभ्रम्य विभ्रम्य दिनत्रयीं तत् । ग्रावोपरि भ्रष्टविहङ्गमाण्ड-मिवाऽस्फ(स्फुटत् कर्मवशादकस्मात् ॥२२२।। वि(व)हित्रकेऽपि स्फुटितप्रमात्रे, सम्प्राप रत्नाकरभूपपुत्री । एकं विशालं फलकं तदीयं, मृत्युभवेन्नाऽत्रुटितायुषो यत् ॥२२३।। उल्लाल्यमाना लहरीगणेन, हंसीव रत्नाकरराजपुत्री । आसादयामास तटं च पञ्च-रात्रेण सैकं विपिनाभिरामम् ॥२२४।। विदेशगत्या निजबान्धवानां, वियोगदुःखेन च दुस्सहेन । सा विप्रयोगेन च वल्लभस्य, भङ्गेन चोच्चैर्वहनस्य तस्य ॥२२५।। अत्यर्थमर्थापगमेन चञ्चत्-कल्लोलमालाधिकघट्टनेन । क्षुधा तृषा चाऽतिकर्थिताङ्गी, नीराद् बहिस्ताज्जलमानुषीव ॥२२६।। अवा(ना)प्तसञ्ज्ञा पतिता पृथिव्यां, निसर्गसंसिद्धदयान्वितेन । सा भूपभूस्तापसबालकेन, तत्राऽऽगतेनैक्षि दृशाऽऽर्द्रयाऽथ ॥२२७।।
॥ त्रिभिर्विशेषकम् ॥