________________
ओक्टोबर-२०१६
६३
आभाषितैवं मुदिते(ता) च राज्ञी, गत्वा द्रुतं भूपतिमित्यवोचत् । त्वं वच॑से जीवितनाथ! दिष्ट्या, वत्सानुरूपप्रियलाभतोऽद्यः ॥१९२।। त्वदीयपुत्र्या स्वयमेव भर्ता, परीक्षितो नाथ! निजानुरूप: ।। शङ्खाभिधे(ध) श्रेष्ठिसुतोऽद्य वीर-भद्राभिधानस्तरुणः कलावान् ॥१९३।। ऊचे नृपश्चिन्तयतो ममेद-मित्युच्चरन्ती मधुरस्वरेण । चिन्तामणीवा-ऽसमकामधेनु-रिव त्वमागाः कमलाननेऽद्य ॥१९४॥ स्थैर्य तथा दाक्ष्यमहो! सुतायाः, परीक्षणे सुन्दरवल्लभस्य । स्थित्वा न्वियत्कालमपीदृशो यद्, ववे वरः सर्वकलाभिरामः ॥१९५|| आह्वायितो भूपतिनाऽपि सद्यो, बह्वस्तिमान् नैगमवृन्दयुक्तः । शङ्खाह्वयः श्रेष्ठिवरः समागात्, क्षोणीपतिं च प्रणनाम धीमान् ॥१९६।। ततश्च स श्रेष्ठिनमेवमूचे, शङ्खाभिधानं वसुमत्यधीशः । कोऽप्यागतः सम्प्रति ताम्रलिप्त्याः, पुर्या युवा वेश्मनि विद्यते ते ॥१९७।। संश्रूयते सर्वकलाकलाप-श्रो(स्रो)तस्विनीवल्लभपारदृश्वा । अनन्यसामान्यगुणाभिरामः, कुन्देन्दुशुद्धान्वयसम्भवस्य(श्च) ॥१९८॥ शङ्खोऽप्युवाच क्षितिवल्लभैवं, गुणान् पुनर्वेत्ति जनोऽस्य सर्वः । विश्वम्भरेशोऽप्य[नु] भाषते स्म, श्रेष्ठिस्तवाऽऽज्ञावशग(गः) स नो वा ॥१९९।। शङ्खोऽप्यभाणीदिति नम्रमूर्द्धा, किमुच्यतेऽदः प्रतिपक्षतः! । तस्यैव कम्बुप्रतिमैर्जनोऽयं, क्रीतो गुणैर्यद् वशवर्त्यशेषः ॥२००।। रत्नाकरोर्वीपतिराचचक्षे, भूयस्तदर्थं दुहिता मदीया ।। अद्यैव शङ्ख! प्रतिगृह्यतां च, योगश्चिरादस्त्विह योग्ययोर्द्राक् ॥२०१॥ श्रेष्ठ्यभ्यधान्नस्त्वमिनः सदैव, प्रजा वयं ते परिपालनीयाः । सम्बन्धभावः सखिता च राजन्!, समानयोरिव(रेव) विराजतेऽत्र ॥२०२।। एवं नृपोऽप्यादिशदिभ्य! किं मां, प्रत्यादिशस्युत्तरभङ्गितस्त्वम् ? । आज्ञां मदीयां कुरु निर्विचारं, गत्वा च सज्जो भव निविलम्बम् ॥२०३।।