SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६२ अनुसन्धान-७१ दैवादियत्कालमहं समान-गुणं वरं न प्रियसि(स)ख्यपश्यम् । कृत्वा पति त्वल्पगुणं गुणज्ञे!, हास्यास्पदं स्या(स्यां) कथमात्मना ना(नो) ॥१८०।। स वीरभद्रः पुनरेवमूचे, वरो वरः सर्वगुणानुरूप: । ममाऽत्र नाऽस्तीति नृपाङ्गजे! मा, वादीधरेयं बहुरत्नसूर्यवत्(सूर्यत्) ॥१८१॥ किं तेऽनुरूपं वरमेणनेत्रे!, सम्पादयेऽद्यैव सुखैकगेहम् ? | अरोचकिन्यङ्गसुखाः प्ररोचि-ष्यन्ते परं ते नियतं न भोगाः ॥१८२।। ततो बभाषे नृपकन्यकाऽपि, त्वमेवमाशाधनसम्प्रदानात् । किं मे समाकर्षयसे रसज्ञा-मिमामथाऽऽख्यामि शुभे मृषाऽदः ॥१८३|| त्वद्भाषितं चेदनलीकमेतत्, ततो वरं दर्शय मेऽनुरूपम् ।। यथा कृतार्थं सकलं मदीयं, स्याद् रूप-लावण्य-कला-कुलादि ॥१८४।। एवं तयोक्तो लघु वीरभद्रो, रूपं निजं दर्शयति स्म तस्यै । साऽप्याचचक्षे त्वदधीनदेहा-ऽस्मि तमुहं त्वं मम जीवितेशः ॥१८५।। अथाऽवदत् सोऽपि तदैवमस्तु, मा स्माऽपवादो भवदात्मनीति । एष्यामि नाऽतः परमत्र भद्रे!, त्वयेतिविज्ञप्य इलापतिस्तत् ॥१८६।। यथाऽयमायुष्मति! सोपरोधं, वदत्यदः श्रेष्ठिनमाशु शङ्खम् । श्रीवीरभद्राय सुता मदीया, सङ्गृह्यतामस्तसमस्तदोषा ॥१८७। उक्ते तयाऽऽमेति स वीरभद्रो-ऽज्ञातस्वरूपोऽगमदात्मगेहम् । आहूय सद्यो जननीमनङ्ग-सुन्दर्यपीत्थं वदति स्म सोत्का ॥१८८॥ लावण्य-रूपाद्यनुरूपकान्ता-भावादियत्कालमभूवमुच्चैः । निष्केवलं खेदनिमित्तमम्ब-पित्रोरहं शल्यमिवोरसीह ॥१८९।। लावण्य-सौभाग्य-कला-वयोभि-रात्मानुरूप: परिचिन्तितोऽस्ति । स श्रेष्ठिशङ्खस्य सुतोऽद्य वीर-भद्राभिधानो मयका वरोऽम्ब! ॥१९०।। अद्यैव मां देहि वराय तस्मै, विज्ञाप्यतां च स्वयमेव तातः । तथा यथा श्रेष्ठिवरं तमम्ब!, शङ्खाभिधं प्रार्थयते मदर्थे ॥१९१।।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy