________________
अनुसन्धान-७१
समर्पयामास ततो विपञ्ची, सा वीरभद्राय नरेन्द्रपुत्री । उत्कीलयामास च सोऽपि तद्वित्, तत्तन्त्रिकां तत्क्षणमेव सर्वाम् ॥१५६।। तन्मध्यभागात् स मनुष्यबालं, शल्यं महीयो हृदयादिवाऽऽशु । आकृष्य सन्दर्शयति स्म तस्या, विस्मापयन् मानसमेणदृष्ट्याः ॥१५७।। तन्त्रीं तदीयामथ सर्जयित्वा, भूयः प्रवाले च नियम्य सम्यग् । .. कोणेन तां वादयति स्म वीणां, प्रवीणतानिर्जिततुम्बरुः सः ॥१५८॥ वाद्यप्रकारं सकलं समाश्रि-त्याऽनन्यचेता लघु निष्कलं च ।। रागं सरागं श्रवणामृताभं, विस्तारयामास च घोषवत्या ॥१५९।। रत्नाकरोर्वीरमणस्य कन्या, सा सा च सञ्चत्(पर्षत्) प्रमदप्रकर्षात् । अतिष्ट(ष्ठ)दालेख्यगतेव कामं, यद्वा कुरङ्गा अपि गीतहार्याः ॥१६०।। सा वीरभद्रस्य निशम्य सम्यग्, वीणाश्रितं गीतमभीतचित्ता । दध्यौ गुणज्ञा गुणवत्सराणा-मपीदृशं पात्रमहो! दुरापम् ॥१६१॥ जन्माऽपि किं चाऽफलमत्र नूनं, विनाऽनया मे गुणरत्नखान्या । विभान्ति देवप्रतिमाः सुगन्धि-पुष्पस्रजैवाऽप्रतिमा अपीह ॥१६२।। तस्या यथाकालमबालबुद्धि-स्तच्चित्त-वित्तप्रविरोधकोभम् । सन्दर्शयामास कलासु सा(चा)ऽन्या-स्वपि प्रवीणत्वमनेकरूपम् ॥१६३।। आत्मानुरत्का(क्ता)मथ वीरभद्रो-ऽवगत्य रत्नाकरराजपुत्रीम् । स श्रेष्ठिनं शङ्खमुपांशु शुद्ध-बुद्धिर्जगाद स्फुटवर्णमेवम् ॥१६४।। त्वनन्दनायाः किल पृष्ठतोऽद्य, कल्ये पितः! प्रत्यहमप्यभीतः ।
अहं व्रजामि क्षितिपालपुत्र्याः, पार्वेऽङ्गनावेषविशेषधारी ॥१६५।। तत् तात! युष्माभिरभीतचित्तै- व्यं तथाऽहं स्वधिया करिष्ये । यथा न भावी भवतामनर्थो, भविष्यति प्रत्युत गौरवं हि ॥१६६।। मह्यं प्रदातुं स्वकनी नरेन्द्र-स्त्वां तात! चेत् प्रार्थयते कदाचित् । तदा तु मान्यं प्रथमं न किञ्चि-दत्याग्रहे सत्यथ मान्यमाः ॥१६७।।
१. दण्डे । २. अत्रान्तरे वीणावादनवर्णनस्यैकः श्लोकः पतितोऽस्ति । दृश्यताम् त्रिषष्टि० ६।२।१८२ । ३. चौरः ।