________________
ओक्टोबर-२०१६
कस्मादियत्कालमियं भवत्या, सखीदृशी सर्वकलाप्रवीणा । नाऽऽनायि पार्श्वे मम मन्दिरे किं, क्षिप्त्वा धृता जीवितवद् वदाऽऽशु ॥१४४।। इत्याचचक्षे लघु वीरभद्रो-ऽप्याशङ्कया पूज्यजनस्य गुा । नाऽऽनायिषि क्ष्मापतिनन्दनेऽत्र, स्वस्राऽनया कोऽप्यपरो न हेतुः ॥१४५।। अनङ्गसुन्दर्यवदत् तवेति, त्वया सदाऽतः परमात्मनीने! । समं भगिन्याऽऽगमनीयमत्रा-ऽभिधानमस्याः सखि! किं सुस्वस्ते! ॥१४६।। झगित्यभाषिष्ट स वीरभद्रो, ममाभिधा वीरमतीति भद्रे! । अनङ्गसुन्दर्यवदत् पुनः किं, कला(:) कला वेत्स्यपरा अपि त्वम् ॥१४७|| शङ्खात्मजेति प्रतिभाषते स्मा-ऽचिरात् स्वयं ज्ञास्यसि राजपुत्रि! । भवेत् प्रतीतिः परभाषितेषु, गुणेषु नाऽऽश्चर्यकरेष्वपीह ॥१४८॥ सख्येवमस्त्वित्यभिधाय पश्चा-दनङ्गसुन्दर्यतिहर्षमि(यु)क्ता । सत्कृत्य शङ्खाङ्गभुवं कृतज्ञा, व्यसर्जयद् वीरमतीसमेताम् ॥१४९।। वेषं युवत्याः सदने विमुच्या-ऽगाद् वीरभद्रः पुनरापणे स्वे । शङ्खस्य पार्वं पितृभक्तिरद्यु(ज्जु)-नियन्त्रितेः(तः) सर्वकलासुधाब्धिः ॥१५०॥ सप्रश्रयं श्रेष्ठ्यपि भाषते स्म, क्वाऽस्था इयत्कालमिलावतंस! । त्वां पृच्छतामत्र भृशं जनानां, खिन्नोऽस्मि कामं ददा(द)दुत्तरं यत् ॥१५१।। स प्रत्युवाचेति करौ ललाट-पट्टे नियोज्याऽद्य गतोऽस्मि तात! । उद्यानमेवं वदति स्म शङ्ख-श्रेष्ठी यदीत्थं तदकारि हारि ॥१५२।। दिने द्वितीयेऽपि तथैव तत्र, कलाकलापामृतवीचिमाली । जगाम तां सर्वकलाप्रवीणां, वीणामपश्यच्च स वादयन्तीम् ॥१५३।। इत्युच्चकैस्ताम[व]दत् स वीर-भद्रो न तन्त्री खलु सुस्वरैषा । यदस्त्यनुस्य(स्यू)त उरूप्रणामो(माणो)
ऽमुष्मा(ष्यां) नृकेशः क्षितिपालबालो(ले!) ॥१५४॥ कथं पुनञ्जयत इत्यमन्द-मुक्तस्तदेदं स जगाद धीमान् । विज्ञायते तद्भवरागभङ्ख-निर्वाहसंवीक्षणतो गुणज्ञे! ॥१५५।।