________________
अनुसन्धान-७१
तस्याः समीपमगमत् प्रतिवासरं श्री-शङ्खात्मजी(जा) विनयवत्यभिधा विनीता । यासि स्वसः! क्व सततं त्वमितोऽन्यदेत्यु
क्ता तेन सत्यमवदनिजबन्धवे सा ॥१३२॥ सा ते सखी सम्प्रति कैविनोदैः, कालं स्वसर्यापयती विशिष्टा । श्रीवीरभद्रेण विशुद्धचित्ता, वीणादिकैरित्यवदत् ततः सा ॥१३३।। तोगमिष्याम्यहमप्युपांश्चि(श्वि)-त्युक्ता सती तेन बभाण सा तु । न बालकस्याऽपि नरस्य बन्धो!, तत्र प्रवेशः सुलभ कुतस्ते ? ॥१३४।। सम्यक् करिष्याम्यहमङ्गनाया, रूपं भगिन्येवममन्दमुक्त्वा । तत्सम्मतः सन्नटवत् स सद्यः, स्त्रीवेशमुच्चैरुररीचकार ॥१३५।। तया समं तत्र जगाम वीर-भद्रः सखीयं सह का भवत्या ? । पृष्टेति राजात्मजया मदीया, स्वसेति सा शङ्खसुता बभाषे ।।१३६।। तदा च रत्नाकरराजपुत्र्या, सद्वर्णकैः काञ्चनगौरमूर्त्या । प्रारम्भि हंसी फलके वियोगा(ग)-दुःखादिताङ्गी लिखितुं स्वशक्त्या ॥१३७।। तामित्यभाषिष्ट स वीरभद्रो, विज्ञानवत्या विरहादितेयम् । प्रारम्भि हंसी लिखितुं भवत्या, दृष्ट्यादिचेष्टौ(ष्टा) परमीदृशी न ॥१३८॥ तालिख त्वं विदुषीति सोक्ता(सोक्त्वा), सुवर्णकं तत्फलकं विशालम् । अनङ्गसुन्दर्यपि राजपुत्री, समर्पयामास तदेव तस्मै ॥१३९।। स तादृशां हंसवधूं लिखित्वा, तत्कालमेवाऽर्पयति स्म तस्यै । गुणिप्रिया सर्वकलाकलाप-पारीणधीर्वीक्ष्य बभाण सैव[म्] ॥१४०|| आलेखनैपुण्यमहो! समस्ता-न्तरस्थभावातिशयप्रकाशि । तथा ह्यमुख्या(ष्या) नयनं विसारि, कदुष्णबाष्पाश्रुकणप्रवर्षि ॥१४१॥ विच्छायमेतत् सुतरां मुखाब्जं, चञ्चूः श्लषो(थो)पात्तमृणालखण्डा । ग्रीवाऽप्यपीना शिथिला प्रकामं, पक्षद्वयी चोत्पतनासमर्था ॥१४२॥ अवस्थितिश्चयमतीव शून्या, वियोगतीव्रातिमतीमवस्थाम् । आभाषते व्यक्तमभाषिताम-प्यस्याः स्वयं पश्यत म(प)श्यताऽऽल्यः।।१४३।।