________________
ओक्टोबर-२०१६
५७
द्वीपे कदाचिन्मणिधाम्नि सिन्धा-ववस्थिते सिंहलनाम्नि रम्ये । ययौ पुरं रत्नपुराभिधानं, परिभ्रमन् नैगमवीरभद्रः ॥१२०॥ स श्रेष्ठिशङ्खस्य चिशुद्धशङ्खो-ज्ज्वलान्वयस्योप्र(प)विवेश हट्टे । पृष्टश्च तेनाऽसदृशर्द्धिभाजा, 'कुतस्त्वामागा वद भद्र! सद्यः' ॥१२१।। श्रीवीरभद्रोऽप्यवदत् स 'ताम्र-लिप्त्या नगर्या निजरम्यहात् । पिता(त्रा) रूषित्वा निसृतः क्रमेण, भ्राम्यन्निहैकाक्यहमाजगाम' ॥१२२॥ श्रेष्ठ्यप्यभाषिष्ट स शङ्खनामा, 'न वत्स! हृद्यं भवता कृतं तत् । यदीदृशे ही सुकुमारदेह-भृता विदेशभ्रमणं वितेने ॥१२३।। कर्तव्यमेतत् तव वक्रमप्य-वक्रेण देवेन कृतं ह्यवक्रम् । यदक्षताङ्गस्तनयाऽऽजगामा-ऽकस्माद् भवानद्य मयो(मो)पकण्ठम्' ॥१२४।। उक्त्वेति तं स्वाश्रयमाशु नीत्वा, स्वपुत्रवच्छेष्ठिवरोऽद्य(थ) शङ्खः । नाना-ऽशना-ऽऽच्छादनकादिकृत्यं, विधाप्य सस्नेहमिदं जगाद ॥१२५।। 'अजातपुत्रस्य मम त्वमेव, पुत्रः पविकुलदीपप्रदीप: (पुत्रः पवित्रः कुलदीप्रदीपः?)। भूत्वा प्रभुस्त्वं विभवं मदीयं, भुड्क्ष्वेच्छया देहि च याचकेभ्यः ॥१२६।। प्रीतिं कुस(रु) स्फातिमती कुमार!, मल्लोचनानां विलसन् यथेच्छम् । सुप्रापमेव द्रविणं यदत्र, पुत्रो दुरापः खलु तस्य भोक्ता' ॥१२७॥ प्रकाशयन् प्रश्रयमप्रमाणं, स वीरभद्रो सिल(ऽपि) त दैवमूचे । 'विनिर्गतोऽपि स्वपितुर्निशान्तात्, पुनः पितुर्मन्दिरमागतोऽस्मि ॥१२८॥ अहर्निशं तात! तवाऽहमेष, शिष्यस्तवाऽऽज्ञावशवर्त्यहं यत् । इहौरसः पापस(सु)तः पितः! स्या-दहं पुनः केवल धर्मपुत्रः' ॥१२९।। ततः सुखेनैव स वीरभद्रः, शङ्खस्य गेहे स्थितवानजस्रम् । विस्मापयन्नागरिकाननेकै-विशिष्टविज्ञानकलाविनोदैः ॥१३०॥ रत्नाकरक्ष्माधिपतेरनङ्गा(ङ्ग)-सुन्दर्यभिख्या तनया बभूव । पुंद्वेषिणी तत्र सदात्मरूप-जितामर श्रीसुतसुन्दरीका ॥१३१॥