________________
अनुसन्धान-७१
विज्ञानवर्गे सकलेऽप्यनन्य-सामान्यमापे चतुरत्वमत्र । मया च बुद्धा गुटिकाप्रयोगा, दिव्या जगद्विस्मयकारिणश्च ॥१०८॥ निरर्थकं तच्च समस्तमेवा-ऽप्रकाशनादल्पमपीह लोके । नियन्त्रितोऽस्म्यत्र सदाऽपि मातृ-पित्रादिपूज्यान्तिकताहियोच्चैः ॥१०९।। सकूपमण्डूकवदत्र तिष्ठ-नहो! अहं कापुरुषाग्रणीकः । गत्वाऽन्यदेशेषु गुणान् स्वकीयान्, सर्वांस्तदाऽऽशु प्रकटीकरोमि ॥११०॥ ध्यात्वैवमुत्थाय स सूक्ष्मदर्शी, विचारयामास हृदीति भूय(यः) । प्रिया प्रियाऽसौ यदि कूटनिद्रा-श्रिता भवेत् तद् गतिविघ्नहेतुः ॥१११।। उत्थापयामास ततः स काम-क्रीडाकृते तामलसेक्षणां श्राक् । सा प्रत्युवाचेति 'शिरो व्यथा मे, प्राणेश! किं मां व्यथयस्यभीकः' ॥११२।। 'कस्याऽथ दोषेण शिरोव्यथा ते, प्राणेश्वरि! ब्रूहि' ततस्तदुक्ता । 'तवैव' साऽप्येवमुवाच सद्यः, स 'कीदृशेने'ति जगाद भूयः ॥११३।। उवाच साऽपि 'प्रिय! यत् तवेयं, वैदग्ध्यवाणी समयेऽप्यमुष्मिन्' । स आचचक्षे 'हरिणाक्षि! मा त्वं, कुपः करिष्ये पुनरीदृशं न' ॥११४॥ तां क्रीडयामास सुधी: स साभि-प्रायं भणित्वेत्यधिकं मृगाक्षीम् । सुष्वाप संवेशनविह्वला सा-ऽप्यजानती तां सरलेभ(त)रोक्तिम् ॥११५।। तां सत्यसुप्तेति विहाय गाढा-मुक्तान्तरीयः सुतरामलक्षः । अपासरत् चार इवाऽथ वीर-भद्रो बृहत्पुण्यसखः स्वगेहात् ॥११६।। आत्मानमुच्चैर्गुटिकाप्रयोगात्, स श्यामवर्णं विदधे तदैव । प्रयाति रूपं लघु नव्यकाव्य-वदन्यतां वर्णविपर्ययेण ॥११७।। प्रकाशयन्नेष कलाकलाप-विज्ञानविद्यातिशयं स्वकीयम् । बभ्राम विद्याधरवत् स्वरुच्या, नानाविधग्राम-पुरादिषूच्चैः ॥११८|| आपृच्छ्य सम्यक् श्वशुरौ सती सा, तातालयेऽगात् प्रियदर्शना तु । कुलाङ्गनानां रमणं विना य-नाऽन्यत्र कुत्राऽपि मतो निवासः ॥११९॥
१. कामुकः ।