________________
ओक्टोबर-२०१६
महद्धिकामर्त्य इवेह कामः(म)-रूपः प्रशस्याद् गुटिकाप्रयोगात् । किञ्चाऽन्यदस्त्यत्र न सा कला यां, ब्रह्मेव जानाति न रा(स) क्षमायाम् ॥९६।। तस्याऽनुरूपां सुभगां तु कन्यां, कुत्राऽपि नाऽद्राक्षमहं महेभ्य! । इयं तु कन्या ददृशे मयाऽद्य, चिरात् सखे! तस्य समानरूपम्(पा)" ॥१७॥ मयाऽप्यभाणीति "सुहन्ममाऽपि, पुत्री कला-कौशलशालिनीयम् । ग्रस्तश्चिरं दुस्सहयाऽनुरूप-वरार्थमस्या हृदि चिन्तयामि(ऽस्मि?) ॥९८|| दैवानुकूल्यात् सुहृदोरकस्मात्, साङ्गत्यमेतद् दृढमावयो(योः) स्तात् । प्रीतिस्पृशोरश्चेतयो(शोश्चेतरयो)र्द्वयोश्च, वधूवरत्वाच्चिरमेतु वृद्धिम् ॥९९।। योग(ग्य)स्नुषालाभवशात् प्रहृष्टो, गत्वा पुरीं स्वामसमर्द्धिमु(यु)क्ताम् । स यज्ञयात्रासहितं स्वपुत्रं, श्रीवीरभद्रं प्रजिघाय सद्यः ॥१००|| वरं विलोक्य प्रवरं तदा तं, समासदं सम्मदमद्वितीयम् । तद्वीजिनिर्दिष्टतदीयरूप-गुणद्धिसंवादविलोकनाद्धि ॥१०१।। प्रदत्त्व(त्त)तोष(षे) दिवसेऽस्तदोषे, पुत्री पवित्रां प्रियदर्शनां मे । प्रोद्यन्मुदोपायत वीत( र )भद्रः, कुलाङ्गनामङ्गलकृत्यपूर्वम् ॥१०२॥ कत्यप्यहानीह स सौख्यभाञ्जि, स्थित्वा पुरीं स्वामगमत् सभार्यः । स्वर्गोपमेऽपि स्वसुरस्य गेहे, न मानिनो जातु चिरं वसन्ति ॥१०३।। अथाऽन्यदाऽ श्रौषमहं स वीर-भद्रो निशायाः प्रहरे चतुर्थे । विहाय सुप्तां मम नन्दानां ता-मेकाक्यगच्छत् क्वचिदप्यकस्मात् ॥१०४॥ कोऽप्यानयत् सम्प्रति वामनोऽत्र, तस्य प्रवृत्तिं मुनिचक्रि(क्र)वतिन्! । परं न वक्ति प्रकटं कुतश्च(श्चि)-द्धेतोस्त्वमाचक्षू(क्ष्व) मम स्फुटं तत्" ॥१०५॥ दुःखौकसः सागरदत्तनाम्नः, सुश्रावकस्येति निशम्य वाचः । आह स्म कुम्भो गणधारिमुख्यः, कृपासुधासिन्धुरुदारचित्तः ॥१०६।। "स चिन्त्यामास तदेति धीमां-स्तस्यां निशि त्वत्तनयाविवोढा । 'अहं कलानां निलयः कलानां, मन्त्राश्च सिद्धा बहवो ममाऽमी ॥१०७॥