________________
५४
अनुसन्धान-७१
अगण्यलावण्यकलाकलाप-सौभाग्यभाग्याद्भुतरूपपात्रम् । साऽनन्यसामान्यमनङ्गचङ्ग-क्रीडावनं यौवनमाससाद ॥८४॥ तस्या अपश्यन्ननुरूपकान्तं, प्रभोऽभवं दुःख्य[ति]दुःखितोऽहम् । उक्तस्तदाऽहं जिनमत्यभिख्य-सत्या 'प्रियाऽऽप्तोऽसि किमद्य चिन्ताम् ?' ||८५|| 'त्वनन्दनायाः प्रियदर्शनाया, अन्वेषयन्नप्यहमायताक्षि! । वरं मन:प्रीतिकरं समन्तात्, प्राप्नोमि कुत्राऽपि न तेन दूये' ॥८६॥ ततो बभाषे जिनमत्यपीति, 'स्वामिस्त्वया बुद्धिमता विचार्य । ग्राह्यो वरः श्रेष्ठतरः स कोऽपि, येनाऽऽवयोः स्यात् प्रिय! नाऽनुतापः' ॥८७।। मयाऽपि तत्सम्मुखमेवमूचे, 'प्रिये! प्रमाणं तव चाऽत्र [वाक्यम्] । सदाऽऽत्मनीनः सकलो हि कोऽपि, स्तोकाभिलाषी भुवि नाऽऽत्मनोऽस्ति' ॥८८।। उक्त्वेति गच्छन् निजपण्यशालं, पूस्तामलिप्त्या अहमागम(तं) द्राक् । अपश्यमीशर्षभदत्तसझं, महद्धिकं प्रापणिकं तदैकम् ॥८९॥ सार्मिकप्रीतिवशाच्चिरं मे, स्नेहोज्ज्वलस्तेन समं बभूव । आलाप उच्चैः क्रय-विक्रयादि-वार्ताश्रितः सर्वकलार्णवेन ॥१०॥ अथाऽन्यथा श्रेष्ठिवरः स रम्यं, कुतोऽपि हेतोर्मम हर्म्यमागात् । समालुलोके च चिरं सहर्ष, स(म)नन्दनां तां प्रियवर्शनाख्य(ख्या)म् ॥९१॥ 'श्रेष्ठिन्नियं कस्य कनी'ति तेन, पृष्ठोऽब्रवं 'भद्र! ममाऽऽत्मजेयम् । प्रसद्य सद्यः कथय प्रकामं, त्वयेक्ष्यते कारणतः कुतोऽसौ ?' ॥१२॥ सुधाकिरोवाच गिरर्षनो(भो)पि, ‘श्रेष्ठिन्! सुतो मे नवद्यौ(यौ)वनोऽस्ति । कलानिधानं सुकृतप्रधानो-ऽभिधानतः सम्प्रति वीरभद्रः ॥९३।। रूपेण सोऽतित्रिदशो-ऽतिवाच-स्पतिगिरा-ऽतिद्विजराट् कलाभिः ।। मनोज्ञगीतेन सदाऽतिहूहू-विज्ञानयोगादतिविश्वकर्माः(1) ॥९॥ कवित्वशक्त्याऽतिमघाभवश्चा-ऽतितुम्बुरुः सुन्दरवीणया तु । विनोदविद्यास्वतिनारदोऽति-सहस्ररश्मिर्निजदेहभासा ॥९५||