SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ "दानं निदानं शुभसम्पदां [य]द्, भोगप्रदं कीर्तिकरं च लोके । मत्वेति भव्या! इह वीरभद्रं(द्र)-वदन्वहं तद् विधिना प्रदेयम् ॥७२।। श्रीवीरभद्रोऽभवदत्र भोगी, यथा तथा स्यादपरोऽपि दानात् । ज्ञात्वेति नित्यं शुभपात्रदाने, कार्या मतिर्जातमिदं तु तस्य ॥७३|| स धारणी-षण्मुखयक्षसेव्य-मानक्रमः स्वर्णसुवर्णवर्णः । त्रिंशद्धनुर्मान्(न)वपुश्च नन्द्या-वर्ताङ्कितः स्वःपतिनिर्मितार्चः ॥७४।। सुरासुरैः शश्वदमुक्तपार्श्व-देशा(शो) विवस्वानिव पारिपाश्र्वैः । भव्याम्बुजं(ज)श्रेणिविकाशकारी, सन्देहमन्देहहरस्तमोहा ॥५॥ ज्ञान-क्रियाबृद्धिभृतां च पञ्चा-शता सहसैर्वतिनां समेतम् । तीव्रव्रतानां किल पञ्चषष्ट्या-ऽन्वितः सहस्रैरनगारिणीनाम् ॥७६।। न्यस्यन्नरः स्वाहियुगं जिनेन्द्रः, सौवर्णपद्धेषु कदाचनाऽपि । श्रीपद्मिनीखण्डमखण्डपद्मा-क्रीडागृहं पत्तनमाजगाम ।।७७|| चतुर्भिः कलापकम् ।। सद्देशनां तत्र विधाय धर्मां, निवर्त(ति)ते सत्यरतीर्थराजे । चकार कुम्भो गणधारिधुर्य-स्तामग्रतः संशयनाश(शि)नी द्राक् ।।७८।। तत्रैकको वामनकः समेत्यो-पाविक्षदाकर्णयितुं सुधर्मम् ।। श्रेष्ठी तदा सागरदत्तनामा, कुम्भं नमस्कृत्य जगाद चैवम् ॥७९॥ "भवप्रकृत्या भविनः सदाऽपि, प्रायोऽखिला दुःखिन एव देव! । विशेषतः सम्प्रति दुःखितोऽहं, सुखस्य लेशोऽपि न मे यदस्ति ॥८०॥ पत्न्येकपनी जिनमत्यभिख्या, ममाऽलये सर्वकलासु दक्षा । तत्कुक्षिजाता प्रियदर्शनाख्या, सत्याभिधाना तनयाऽजनिष्ट ॥८१।। चन्द्राननेन्दीवरपत्रनेत्रा, सुवर्णवर्णांसविलग्नकर्णा । बिम्बाधरा-ऽऽदर्शसदृक्कपोला, सुपर्णचञ्चूपमनासिका च ॥८२।। वलित्रयालङ्कृतमध्यदेशा, कृशोदरी सुन्दरपाणिपादाः(दा) । अलक्षणैः षोडशभिविहीना, द्वात्रिंशता स्त्रैणगुणैस्तु युक्ता ॥८३।।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy