________________
५२
अनुसन्धान-७१
षड्जीवसङ्के यतनापरैर-प्यहर्निशं ज्ञानदशाविहीनैः । जैनैर्दया प्राणिगणस्य सम्यक्, शक्येत कर्तुं कथमन्यथेह ? ॥६२।। ज्ञानावलोकोज्झितमानसोऽत्रा-ऽभिमानशाली पुरुषोऽल्पबुद्धिः । यो वस्त्र-पात्रेऽपि परिग्रहस्य, शङ्कां विधत्ते स हि हिंसकः स्यात् ॥६३|| परिग्रहेच्छा(च्छां) य इहाऽपि धर्मो-पष्टम्भके वस्तुनि ही विधत्ते । अज्ञाततत्त्वार्थविचारसारान्, बालानहो! रञ्जयितुं स इच्छेत् ॥६४।। पृथ्वी-जलो-षर्बुध-गन्धवाह-वनस्पति-द्वीन्द्रियमुख्यजन्तून् । भवेत् समर्थो मुनिरुद्यतोऽपि, त्रातुं न धर्मोपकृति विनाऽत्र ॥६५॥ यदार्षम् - जं पि वत्थं च(व) पायं वा, कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा, धारिति परिहरंति य ॥१॥ न मो(सो) परिग्गहो वृत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वृत्तो, इइ वुत्तं महेसिणा" ॥२॥ निरुत्तरीकृत्य दिगम्बरं [तं], राजप्रदत्तं जयपत्रमित्थम् ।।
आदाय चोच्चैः स कृतोत्सवार्या(!), ननाम पूज्यान् वसतिं समेत्य ॥६६।। ततो विजहु(हु)नगराद् गणेशा, वसुन्धरां ग्रामपुराभिरामाम् । प्रासाद-सौधा-ऽऽपणचक्ररम्यां, क्रमेण नड्डूलपुरं च जग्मुः ॥६७|| तत्राऽऽसलोर्वीपतिसेव्यपादः, श्रीपञ्चमाझं मुनिचन्द्रसूरिः । तं वाचयामास महार्थकोशं, साम्नायमुच्चैर्गणिरामचन्द्रम् ॥६८॥ सद्देशनाबोधितभव्यसत्त्वाः, क्रमाद् बृहद्गच्छसरोमरालाः । ते गुर्जरो/तिलकायमाने, ययुः पुरे श्रीमति पत्तनाख्ये ॥६९॥ आदेशतः श्रीमुनिचन्द्रसूरेः, समग्रशास्त्रार्थविचारदक्षः । सुधाकिरा तत्र गिरा चकारे-ति देशनां पण्डितरामचन्द्रम्(न्द्रः) ॥७०।। दानोपदेशं प्रथमं जिनेशो-ऽप्यदाद् यत: केवलतां प्रपन्नः । दास्ये तमेवाऽहमपि स्वशक्त्या, सङ्घाय कल्याणकरं द्विधाऽपि ॥७१॥