SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर-२०१६ नरवरनगर धीसार-नारायणाख्य-मजयदसमबुद्धिः शुद्धमीमांसकं च । त्रिभुवनगिरिदुर्गे हेलया रक्तवस्त्रं, स्व-परसमयवेत्ता रामचन्द्रः कवीन्द्रः ॥५०॥ प्रभावनां [श्री]जिनशासनस्य, कुर्वन् स इत्थं गणिरामचन्द्रः । ततो धरित्रीरमणीललाम(मं), श्रीपत्तनाख्यं नगरं जगाम ॥५१।। अथाऽन्यदा श्रीमुनिचन्द्रसूरि-र्ययौ पुरं नागपुरं सशिष्यः । वृत्तश्च पौरेर्धनदेवमुख्यै-रौनृपः सम्मुखमाजगाम ॥५२।। सद्देशनानन्दितभव्यलोका, नत्वा जिनेन्द्रान् वसतिं ययुस्ते । भूपाग्रहात् तत्र दिनानि कत्य-प्यस्थुश्च चारित्रपवित्रिताङ्गाः ॥५३।। अथ भ्रमंस्तत्र दिगम्बरेन्द्रो, विद्याविलुप्तो गुणचन्द्रनामा । निर्ग्रन्थतायां विवदंस्तदानी-मागादहङ्कारगजाधिरूढः ॥५४|| पत्रावलम्बं पृथिवीशसंस-द्याशाम्बरस्तत्र चकार दर्पात् । अभ्यर्थ्य राजा गणिरामचन्द्र-मकारयत् तेन सहाऽथ वादम् ॥५५॥ लोके तदानीं मिलिते प्रभूते, प्रतिष्ठितेऽथो चतुरङ्गवादे । आदौ स वादी गुणचन्द्रनामा, स्वपक्षकक्षामिति जल्पति स्म ॥५६।। "मतेऽर्हतां मुक्तिवधूपभोगे, निर्ग्रन्थतां साधनमाद्यमाहुः ।। सचीवरत्वे भवतां कथं सा ?, श्वेताम्बराग्रेसर! कथ्यतां मे" ||५७|| दिगम्बरं प्रत्यवदत् स साधु-"hणोत मुख्या भवतां म[ते] सा । मुख्यैव चेत् तर्हि मता ममाऽपि, सतां यतः सम्मत एष पन्थाः ॥५८।। मिथ्यात्व-वेदत्रय-हास्यषट्क-समन्वितं क्रोधचतुष्टयं यत् । आभ्यन्तरं ग्रन्थमुशन्ति जैनाः, सग्रन्थकास्तज्जयिनः कथं तत् ? ॥५९।। ग्रन्थस्तु कोपादिचर्तुदशाख्यः, स नाऽस्ति येषां मुनिपुङ्गवानाम् । निर्ग्रन्थता तेषु सदाऽस्त्यवश्यं, बाह्येष्वनास्था वसनादिकेषु ॥६०|| यदेतदायात्युपयोगमत्रा-ऽनवद्यचारित्रहिताय धीमन्! । तद् वस्त्रपात्रादि सदाऽपि धर्मो-पष्टम्भकं ग्राह्यमृषिव्रजेन ॥६१॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy