________________
अनुसन्धान-७१
पूर्वं तदीया गुरुबन्धवोऽमी, सद्वाचकः श्रीविमलेन्दुनामा । अशोकचन्द्रो हरि-सोम-पार्श्व-चन्द्राभिधानाश्च बुधा बभूवुः ॥३८॥ चक्री यथा राजसु भेषु चन्द्रः, शैलेषु मेरुर्दूषु कल्पवृक्षः । सुरेषु वज्री पुरुषेषु विष्णु-बृहस्पतिर्मन्त्रिषु बुद्धिमत्सु ॥३९॥ चम्पाधिपस्त्यागिषु सव्यसाची, मघा भटेषूद्भटविक्रमेषु । शिष्येषु सर्वेषु तथा स तेषु, रराज कामं मुनिरामचन्द्रः ॥४०॥ युग्मम् ॥ दशाहिकाद्युत्सवपूर्वकं ते, स्थित्वा दिनान् कत्यपि तत्र भक्तम् । भार्यादिनिःशेषकुटुम्बयुक्तं, तं वीरमा( ना )गं विधिनोपगृह्य ॥४१॥ ततो विजहु(हु)र्मुनिचन्द्रसूरि-पादाः प्रवादिद्विपसिंहनादाः । उद्यविहारेण पवित्रयन्तः, क्षोणी नग-ग्राम-पुराभिरामाम् ॥४२॥ पूज्येषु तन्वन् विनयं सदैवा-ऽचिरक्रियः साधुजनस्य शिक्षाम् । अपि द्विधा शिक्षितवाननूना-मनन्यचेताः मुनिरामचन्द्रः ॥४३॥ पपाठ षड्जीवनिकायमादौ, स बुद्धिमानध्ययनं ततो द्राक् । महाव्रतारोपणपूर्वमुच्च-रुत्थापनां तस्य गुरुश्चकार ॥४४|| छन्दः-कथा-ज्योतिष-लक्षणा-ऽल-ङ्कार-प्रमाणा-ऽऽगम-नाटकादीन् । ग्रन्थानशेषानपि स क्रमेण, धीमानधीते स्म गुरोः सकाशात् ॥४५॥ उदूढयोगो विधिना वितन्द्रो, जिनागमाम्भोनिधिपारदृश्वा । गुरुप्रसादात् क्रमतः स साधु-र्बभार गीतार्थशिरोमणित्वम् ॥४६॥ ययौ कदाचिद् धवलक्काख्यं, पुरं स धीमान् विहरंश्च तत्र । ब्राह्मण्यशास्त्रेषु नदीष्णबुद्धिं, जिगाय विप्रं शिवसौख्यसञ्झम् ॥४७॥ अथैकदोर्वीवलये विहारं, कुर्वन्नगात् सत्यपुरं पुरं सः ।। तत्राऽप्यजैषीत् स्व-परागमज्ञत(ज्ञः), काश्मीरकीराभिधलब्धवर्णम् ॥४८॥ अलञ्चकार स्वविहारहार-स्रजा पुरं चारु स चित्रकूटम् । तत्राऽजयत् सोल्लकभूधवाग्रे, मीमांसकं श्रीवसुभूत्यभिख्यम् ॥४९॥