________________
४.
अनुसन्धान-७१
क्षयं शशाङ्कोऽनुनिशं प्रयाति, सङ्कोचमम्भोजवनं नितान्तम् । विकाशि पूर्णं च सदैव केनो-पमीयते तद्वदनं मनोज्ञम् ? ॥१४॥ कान्तौ कपालाववलोक्य तस्यो-ल्लसद्द्युती शीतकरः समन्तात् । शङ्के जण(गा)म स्वपराजयोत्थ-विषादतोऽद्याऽपि कलङ्कितान्तम् ॥१५॥ तद्भू(भ्रू)लते रम्यतरे समाने, अत्यूजितामादधतुश्च लीलाम् । सद्वैजयन्त्याविव विश्वविश्व-जये स्मरक्षोणिभृतोच्छिते ते ॥१६।। विरेजतुस्तच्चरणौ स्वकान्त्या, लक्ष्मी विजित्येह पयोरुहस्य । विसारिभिश्चारुनखप्रभाभि-विस्तारयन्ताविव हास्यमुच्चैः ॥१७॥ विलोक्यते स्म क्वचिदेष(व) तस्य, नाऽन्यत्र तद्रूपमनन्यरूपम् । चन्द्रातपश्चन्द्रमृतेऽपरत्रा-ऽप्यालोक्यते किं नयनामृतं वा ? ॥१८॥ अश्वं समारुह्य चचाल यावद्, गेहाद् ददत् स्पर्शनमर्थिनां सः । व्रतं जिघृक्षुमु(M)निचन्द्रसूरि-क्रमाम्बुजद्वन्द्वसमा(मी)पदेशम् ।।१९।। तत्रान्तरे मङ्गलतूर्यनादं, निशम्य बालाः प्रविहाय कार्यम् । स्वं स्वं तदालोकनसावधानाः, परस्परं जल्पमकी(का)पुरव[म्] ॥२०॥ उवाच काचिद् “यदि मां मदम्बा, दद्यादमुष्मै कुलजाय सख्यः! । मानुष्यकं जन्म फलेग्रहि स्यात्, तदा ममेदं नवयौवनं च" ॥२१॥ अन्या बभाषे सुमुखी सखीं "किं, गत्वाऽऽत्मनाऽमुं सुभगं वृणोमि ? | सा प्रत्युवाचेति न तेऽस्मि भाग्यं, येनाऽयमूरीकुरुते सखि! त्व(त्वा)म्" ॥२२।। आह स्म काचिद् विदुरा सरागा(गां), तस्योपरि द्रागवलोक्य काञ्चित् । "मुग्धे! कथं त्वां भजते(ती)ह सैष, मनो विरक्तं विषयेषु यस्य ॥२३।। हहा! किमिच्छं(त्थं) जिनदेविमातर!. व्रतं गृ(ग्र)हीतुं भृशमुत्सुकोऽभूः ? । भोगानलं भुक्ष्व विचारय त्वं, क्वेयं तनुस्ते क्व च साधुताऽसौ ॥२४|| धन्येयमम्बा जिनदेव्यभिख्या, याऽसूत पुरत्नमिमं गुणाढ्यम् । अरक्ष्यताऽऽत्मीयमिदं कुटुम्बं, येनाऽखिलं दुर्गतितीव्रदुःखात् ॥२५॥ श्रीमान् जयन्तः किमु ? किं कुमार: ?, किं वा जराभीरुरयं शरीरम् । इत्थं कथा श्रोत्रसुखा वधूभ्यः, शृण्वन्नगाज्जैनगृहोपकण्ठम् ॥२६।।