________________
ओक्टोबर-२०१६
अथाऽन्यदा श्रीमुनिचन्द्रसूरिः, पात्राय तस्मै चरणोचिताय । दीक्षां प्रदातुं समयं समीक्ष्ये-त्यूचे प्रमोदाज्जिनदेविजानिम् ॥२॥ श्रेष्ठिन्! वयं ते तनयस्य दीक्षां, दातुं समीहेमहि निर्विलम्बम् । लग्नादितो यत्र(न) विशुद्धमन्यत्, कालेऽस्ति भूयस्यपि शोध्यमानम् ॥३॥ श्रेष्ठी समाकर्ण्य वचः प्रभूणां, कुटुम्बसांमत्यमथो विधाय । अमेलयद् वस्तु समस्तमाशु, तद् यद् विधेस्तस्य बभूव योग्यम् ॥४|| ऐयुः समं कुङ्कमपत्रिकाभिः, सार्मिका देश-विदेशतोऽपि । बालश्च स स्नानविलेपनाद्यै-गुहे गृहे सत्क्रियते स्म नित्यम् ॥५॥ श्रेष्ठ्यद्भुतं मण्डपमुत्पताकं, विस्तीर्णमुच्चै रचयाञ्चकार । तत्राऽभिषेकं विदधुः कुमार-स्याऽऽचारवत्यो निजगोत्रनार्यः ॥६।। दुकूलवास: परिधार्य पूर्व, श्रीखण्ड-चन्द्रद्रवर्चिताङ्गम् । हारा-ऽर्द्धहारादिविभूषणैस्तं, रामा अलञ्चक्रुरलं कुमारम् ॥७॥ आज्ञाऽर्हतां चाऽस्य शिशोश्चकासा-मासाऽवतंसच्छलतो हि शीर्षे । भालेऽष्टमीचन्द्रनिभे ललाम(म), प्रणामवत् पूज्यजनस्य चोच्चैः ॥८॥ तत्कर्णयोः कुण्डलयुग्ममिन्दु-सूर्यानुकारि श्रुतवद् बभासे । ताम्बूलमास्ये बिभराम्बभूव, भूषावहं सूनृतवाक्यवच्च ॥९॥ धर्मोपदेशालिरिवाऽस्य कण्ठे, न्यस्ता बभौ नूतनपुष्पमाला । क्रोडे नवश्रेणिमयं स(सु)हारं, ब्रह्मव्रतस्येव बभार गुप्ताः(प्ती:) ||१०|| भूषा बभावङ्गद-कङ्कणाद्या, सोडी(शौण्डी)रिमेवाऽस्य भुजद्वयेऽपि । कराङ्गुलीषु व्रतिधर्मभेदा, इवोमिका रेजुरलं दशात्ताः ॥११॥ इत्थं मनोहारिविभूषणौघै-बर्बाह्यान्तरैर्भूषितकाययष्टिः । सुवासिनीभिर्विहितोपचारः, प्रमोदसम्पूर्णमनाः कुमारः ॥१२॥ कान्तिविधोर्ध्वान्तरिपोश्च दीप्ति-विकाशभाव: कमलाकराच्च । गुणा गुरुप्रेमतयेव सर्वे, प्रापुस्तदास्ये सहयोगितां ते ॥१३॥