SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७१ सङ्घ(ङ) समाह्वयदथौकसि वीरणागः, पुत्र(त्रं) क्षमाश्रमणमात्मनि(नो) दातुकामः ॥१३६।। सम्बन्धिवर्गमखिलं परिपृच्छ्य धीमानानीय वेश्मनि गुरून् गुरुगौरवेण । सङ्घ प्रपूज्य विधिना प्रतिकर्मिताङ्ग, श्रेष्ठी ददौ स्वगुरवे निजनन्दनं तम् ॥१३७।। "तीर्णः प्रभो! दुरितः(त)सिन्धुरयं च योऽग्रः, कल्पद्रुमोऽजनि फलेग्रहिरद्य तद् यत् । दत्वोद्वहं स्व(सु)गुरुकृत्यमिदं व्यधास्त्वं", साऽबोधयत् पतिमपत्यवियोगचि(खि)न्नम् ॥१३८॥ यत्र क्षणे शिरसि तस्य सुतस्य वासक्षेपं चकार सुगुरुर्मुनिचन्द्रसूरिः । बालोऽप्यबालचरितः स तदेति मेने, "तीर्णो मया भवपयोधिरवश्यमेषः" ॥१३९।। लब्धे लब्धिसुधाम्बुधौ गुणनिधौ सौभाग्यभाग्यावधौ, पात्रे तत्र समस्तसङ्घसहितास्ते पूर्णभद्रास्तदा । श्रीमन्तो मुनिचन्द्रसूरिगुरवः सञ्जज्ञिरेऽथ व्रतं, दातुं तस्य समुद्यताः शुभदिनं संशोधयाञ्चक्रिरे ॥१४०॥ ॥ इति वादीन्द्रश्रीदेवसूरिचरिते निरङ्केपि पूर्णभद्राङ्के शिशुत्वा-ऽश्वावबोध-शकुनीचरितधर्मदेशना-गुरुपुत्रप्रदानादिवर्णनो नाम द्वितीयः प्रस्तावः ॥ तृतीयः प्रस्तावः सदागमाम्भोजविकासभानवः, सुशिष्यकल्पद्रुमरत्नसानवः । रत्नत्रयानन्दितसर्वसूरयः, संमु(सन्तु) श्रिये वो मुनिचन्द्रसूरयः ।।१।।
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy