________________
ओक्टोबर-२०१६
कार्योऽष्टचक्रपथपुत्तलिकाक्षिवेधो, जित्वोपसर्गगणमुग्रपरिषहांश्च । एकाकिनाऽतिविषमा ह्यगृहीतपूर्वा, ग्राह्या जगत्रितयजैत्रपताकिकेह ॥१३०।। वत्साऽमुना तव कथञ्चन कोमलेन, कष्टं व्रतस्य वपुषा कथितस्वरूपम् । शक्यं न सोढुमधुना क्रकचप्रहारः, स्तम्भेन मङ्गलपुषेव शिशोः कदल्याः ॥१३१॥ दीक्षाग्रहं त्यज ततो मम लाहि शिक्षा, शक्ये हि वस्तुनि कृतोद्यमता विभाति । वंशावतंस! परिपालय गोत्रमेतत्, पाणिग्रहं कुरु गृही भव भुक्ष्व भोगान् ॥१३२।। तावत् कुरु त्वमधुना गृहमेधिधर्म, दीक्षामिमामपि जरन् पुनराददीथा[:]" | स्नेहप्रकाशकमिदं वचनं जनन्याः, श्रुत्वेत्यभाषत पुनः प्रतिमातरं सः ॥१३३।। "ज्ञात्वा चलान् स्वतनु-यौवन-जीवितादीस्तिष्ठे कथं भवपथेऽम्ब! निराकुलोऽहम् । कार्याणि दुष्करतराण्यपि यद् भवन्ति, सर्वाणि साहसवतां सुकराण्यवश्यम् ॥१३४|| तन्मां व्रतार्थमधुनाऽपि विसर्जयाऽम्ब!, विज्ञप्य मज्जनकमेष तवाऽस्मि दासः । बाढं बिभेमि भवचारकवासतो यत्, तस्माद् गुरोः श्रुतचतुर्गतितीव्रदुःखः" ॥१३५।। दीक्षाग्रहं स्वतनयस्य निशम्य जन्यास्तद्याचनं च मुनिचन्द्रगुरोविचिन्त्य ।