________________
ओक्टोबर-२०१६
सौख्यार्थिनामपि भवेत् कुटिलस्वभावैः, सौख्यं कुतोऽल्पमपि देहभृताममीभिः । पञ्चप्रकारविषयैर्भुजगैरिवोद्मश्चेतोविकारजनकैर्मरणावहैश्च ॥११७।। यैनिर्जिताः करणसज्ञकवैरिणोऽमी, तैर्निर्जितं जगदिदं सममप्यवश्यम् । तस्मादहनिशमपीन्द्रियनिग्रहेऽपवर्गप्रदे शमधनैर्यतितव्यमुच्चैः ॥११८।। शश्वद्वषीकवशगा भविनो भवन्ति, निःशेषलोकवशवर्तिन उर्वरायाम् । नानाविधोन्नतमनोरथपाशबद्धास्तीव्राण्यमी अनुभवन्त्यमु(सु)खानि चोच्चैः ॥११९|| सौख्यं कदाऽपि यदभीष्टसमागमे स्याच्चक्षुःसरोरुहविकाशकृदल्पकालम् । संसारिणां विषयतर्षितमानसानां, स्वप्नाप्तसङ्ग इव तज्जनयेन्न तृप्तिम् ॥१२०।। एवं विबुध्य पुरुषोत्तमवल्लभायाः, सारेतरेत्वमिह भोगसुखस्य चोच्चैः । एते विमुच्य शिवकारिणि सत्पुमर्थे, धर्माभिधे कुरुत तत्सततं प्रयत्नम् ॥१२१॥ इत्यादि तद्वदनपङ्कजजातमद्य, पीतं वचोमधु मया भ्रमरेण सृष्टम् । तन्मां विसर्जय तदन्तिक आशु लब्धास्वादो न तिष्ठति यदम्ब! कथञ्चनाऽपि" ॥१२२।। "यस्मिन् व्रते निरतिचारतया धृते स्यात्, स्वर्गापवर्गपदवी न दवीयसी सा ।