________________
ओक्टोबर-२०१६
V9
उद्वेगकारिणि सदाऽखिलनारकाणां, घोरारवै: सकरुणैविरसैः प्रकामम् ॥१०४|| एतादृशे प्रपततां नरके प्रियाभिः, कामं प्रियाभिरपि सुन्दरविग्रहाभिः । मत्तद्विपेन्द्रगमनाभि-रनङ्गचङ्गक्रीडालिभी रणरणत्पदनूपुराभिः ॥१०५।। चन्द्राननाभिरिभकुम्भपयोधराभिस्त्राणां क्रियेत न मनागपि देहभाजाम् । द्रव्येण नैव कलधौत-मणि-प्रवालमुक्ताफलप्रभृतिना बहुनाऽपि किञ्चित् ॥१०६।। मित्रैः पवित्रचरितैरपि नाऽद्वितीयप्रेमालयैरपि न बन्धुजनैः कदाचित् । दृप्तद्विषद्विरदवृन्दमृगाधिपेन, स्वीयेन नो भुजबलेन जनाधिकेन ॥१०७।। घोरे यथा नरकधाम्नि तथा समस्ततिर्यग्गतावपि जरामरणादिदुःखैः । तप्तस्य जन्तुनिवहस्य सुहृत्-प्रियाऽर्थ-पुत्रादिभिः शरणमत्र न सर्वथाऽपि ॥१०८।। तथाहि भव्या यदा निरुपमाऽऽतप-शीत-तीव्रोदन्या-क्षुधाप्रभृतिसम्भवदुःखभारैः । तिर्यद्भ(ग्भ)वेऽप्यसुभृतोऽक्ष(कृ)तधर्मकृत्याः, क्लिश्यन्त्यलं किमु तदा शरणं तु तेषाम् ॥१०९॥ एवं नरा नरभवेऽपि पुलिन्द-डुम्बमातङ्ग-वागुरिक-सौनिक-धीवराणाम् । सज्जात्यमन्दमदतो जननेष्वधर्महर्येषु जातजनुषां जननिन्दितेषु ॥११०॥