________________
४०
अनुसन्धान-७१
धर्मे सदाऽपि यतितव्यमिहैव जैने, स्वर्गापवर्गसुखसम्पदभग्नपात्रे ॥९८॥ लब्ध्वाऽपि तन्मनुजजन्म विवेकहीना, आपातमात्रमु(सु)खकारणभोगलीनाः । हा! हारयन्ति गृह-मित्र-कलत्र-पुत्रद्रव्यादि मोहवशगा बहवोऽङ्गिनोऽत्र ॥९९।। किञ्च - भो भो! जना इह भवेऽर्जभ(थ) यनिमित्तं, द्रव्यं तथा कुरुत(थ) मित्र-कलत्रवर्गम् । विद्युल्लतेव जलबुबुदवत् कुशाग्रलग्नाम्बुबिन्दुरिव तच्चपलं शरीरम् ॥१००।। तथा - एते पुनर्जगति कस्य न वल्लभाः स्युश्चेतोहराः सुखकरा विषया: प्रकास(म)म् । चो(चे)न्नो पतेदसमये गुरुमृत्युघाटी, सर्वस्वसंहरणलम्पटमानसोग्रा ॥१०१।। किञ्चोज्ज्वलखि(लाग्नि)शिखानिचयातिभीष्मे, तीक्ष्णासिपत्रवनशाल्मलिकाद्रुमोग्रे । कामं पतद्विशिख-मुद्गर-वज्र-कुन्तशेल्ल-त्रिशूलगणदुस्सहदुक्खगेहे ॥१०२।। तद्रक्षकासुरविनिर्मितवैक्रियोगरूपातिभीतिजनके शिशिरातपाद्ये । श्रीकण्ठकण्ठसदृशेन तमोभरेण, श्यामीकृताखिलहरित्तरुणीमुखे च ॥१०३|| सर्वत्र चोत्स(च्छ)लदनर्गलदुष्टगन्धे, शस(श्व)द् वसा-रुधिरपूरसकर्दमेऽलम् ।