________________
ओक्टोबर-२०१६
सा प्रत्यवोचदिति तं गुरुभक्तियुक्ता, "धन्योऽसि सद्यतिजने जननीसमान! । दूरे गतोऽद्य मनसस्तव नाथ! पाप्मा, त्वां याचते गुरुरयं यदमुं तनूजम्" ॥१२॥ ऊचेऽन्यदा स्वतनयं जिनदेविनाम्नी माता"ऽद्य वत्स! सुचिरं क्व भवान् स्थितोऽभूत् ?" | पुत्रस्ततोऽवद "दहं मुनिचन्द्रसूरिं, नन्तुं गतोऽभवमनङ्गकुरङ्गसिंहम् ॥१३॥ मातर्मयाऽद्य मुनिचन्द्रगुरोः सकाशादश्रावि मोक्षसुखदोत्तमदेशना च" । श्रुत्वेति हर्षितमना जननी तदानीमाह स्स(स्म) चन्द्रवदनं प्रतिपूर्णचन्द्रम् ॥१४॥ "श्रीजैनशासनकुशेशयभास्करण, का देशनाऽद्य गुरुणा विहिता हिता ते । श्रोतुं ममाऽपि कुतकं महदस्ति तां तत्(), द्राक् कथ्यतामतितरामियमुद्यताऽस्मि" ॥९५|| संयोज्य पाणियुगलं स्वललाटपट्टेऽथाऽऽह स्म सोऽपि जननी जननीं सुखानाम् । "यद्यप्यमहँगुरुणाऽप्यखिला न शक्या, सा वक्तुमम्ब! कथयामि तथापि किञ्चित् ॥९६।। तथाहि - रत्नाकरे पतितरत्नमिवाऽङ्गभाजामादाविदं मनुजजन्म दुरापमत्र । तत्राऽपि पुण्यविकलस्य निधानवत् स्याद्, धर्मः कुकर्महदलं च दुरासदोऽयम् ॥९७॥ तत् प्राप्य पुण्यवशतो नरजन्म रम्यं, कल्पद्रुवत् सुखकृदन कथं-कथञ्चित् ।