________________
30
अनुसन्धान-७१
भाला-ऽऽस्य-हृत्सु विपुलो मुख-कक्ष-वक्षःकामाङ्कशा-ऽवदु(टु)-नशा(सा)सु भृशं तथोच्चैः ॥८५|| दीर्घोऽति बाहु-हनु-हन्-नसि तालुजिह्म-पादौ-ष्ठ-पाणि-नयनान्त-नखेषु रक्तः । जङ्घा-सलिङ्ग-धमनीलघुरेभिरासीच्छ(च्छ)ङ्गारितो द्विगुणषोडशलक्षणैः स ॥८६॥ रेजेऽस्य शस्यकचपाशमिषेण चित्रं, वक्त्रामृतांशुरुपरिस्थितनित्यराहुः । अर्द्धन्दुतुल्यममलं विरराज भालं, दोलाकलं श्रुतियुगं सुकृतश्रियः किम् ? ॥८७|| नासा स्वभावसरला गरुडस्य चञ्चुर्वोचु(ढुं) क्षमाविह महाव्रतभारमंसौ । चारित्रभूपतिसदो हृदयं विशालं, नाभिर्बभौ लवणिमाम्बुभृतेव कूपी ॥८८॥ दोरस्य दीर्घ-सरल: पततो भवाब्धावृद्धर्तुमिच्छुरिव भव्यजनानशेषान् । कूर्मोनतं पदयुगं नतदत्तसौख्यं, सा(ज्ञा)त्वेति तस्य जनको गुरुभिस्तदोचे ॥८९।। "श्रेष्ठिन्नमुं यदि ददासि निजं तनूजमस्मभ्यमाशु शुभलक्षणलक्षिताङ्गम् । नूनं तदा भवति सर्वमुनीन्द्रमुख्यः, शश्वत् प्रभावकतया प्रथितः पृथिव्याम्" ॥१०॥ श्रुत्वा वचो निजुगुरौ(रो)रिति वीरणागः, श्रेष्ठी जगाद गृहमेत्य जनीं प्रतीदम् । "अत्यादरेण गुरवो मम मार्गयन्ति, पुत्रं प्रिये! किमुचितं प्रतिभासते ते ?" ॥९१॥